________________
१२०
दशवैकालिकं-टीकात्रिकयुतम् ___ कथं न गृह्णीयात् ? तथा ग्रहणे दोषमाह-दुरूह...इति-निश्रेणिप्रमुखमारोहन्ती स्त्री प्रपतेत, प्रपतन्ती च हस्तं वा पादं वा लूषयेत् स्वकीयं, स्वत एव खण्डयेत्, पुनरपि कथञ्चित् तत्र स्थाने पृथिवीजीवान् विहिंस्यात्, पुनरपि यानि तन्निश्रितानि पृथ्वीनिश्रितानि जगन्ति प्राणिनः तानपि(तान्यपि) हिंस्यात्. ।।६८।।
ततः साधवः किं कुर्वन्ति ? इत्याह-एआरिस 'इति-एतादृशान् पूर्वोक्तान् महादोषान् ज्ञात्वा महर्षयः साधवः, यस्माद् दोषकारिणीयं भिक्षा, तस्मान्मालापहृतां मालोपनीतां भिक्षां न प्रतिगृह्णन्ति, किंविशिष्टा महर्षयः ? संयताः, सम्यक् संयमे यतनां कुर्वाणाः. ||६९।।
(सु.) 'निस्सेणी'इति सूत्रं, निःश्रेणिं, फलकं पीठं उस्सवित्ता-उत्सृत्योर्ध्वं कृत्वेत्यर्थः, आरोहेत्, मञ्च कीलकं चोत्सृत्य, कमारोहेदित्याह-प्रासादं, श्रमणार्थ-साधुनिमित्तं, दायको-दाता आरोहेत्, एतदप्यग्राह्यमिति ।।५.६७।। .
(सु.) अत्रैव दोषमाह-'दुरूहमाणी'इति, आरोहन्ती प्रपतेत्, प्रपतन्ती च हस्तं वा पादं वा लूषयेत्-स्वकं स्वत एव खण्डयेत्, तथा पृथिवीजीवान् विहिंस्यात् कथञ्चित् तत्रस्थान् तथा यानि च तनिश्रितानि जगन्ति-प्राणिनस्तांश्च(तानि) हिंस्यादिति ।।५.६८।।
_ 'एयारिसे'इति-ईदृशान् अनन्तरोदितरूपान् महादोषान् ज्ञात्वा महर्षयः-साधवो, यस्माद् दोषकारिणीं तस्माद् मालापहृतां-मालोपनीतां भिक्षां न प्रतिगृह्णन्ति संयताः । पाठान्तरं = वा हंदि मालापहृतामिति, हंदीत्युपदर्शनमिति ।।५.६९।। कंदं मूलं पलंबं वा, आमं छिन्नं व सन्निरं । तुंबागं सिंगबेरं च, आमगं परिवज्जये(ए) ।।५.१.७०।।
(ति.) अन्यदपि प्रतिषेध्यमाह-कन्दम्-सूरणादेः । मूलम्-मूलकादेः । प्रलम्बम्तालफलादिः । आमं छिन्नं सन्निरम्-समयभाषया पत्रशाकम् । तुम्बागम्-तुम्बकमेव । शृङ्गबेरं च-आर्द्रकम् । आमकं परिवर्जयेत् ।।५.७० ।।
(स.) पुनः किं किं कीदृशं कीदृशं न गृह्णन्ति तदाह-कंदं...इति-साधुः कन्दं सूरणादि 'वर्जयेत्' इत्युक्तिः सर्वत्रालापनीया १, तथा मूलं पिण्डादिरूपं २, प्रलम्बं वा