________________
पञ्चमम् अध्ययनम्
१३७
(ति.) एतत् किम् ? - इत्याह-उत्पन्नम्-ईदृशमेव विधिना प्राप्तम् । नातिहीलयेत । अल्पम् स्तोकम् । बहु वा-असारप्रायम् । किं विशिष्टं, प्रासुकम् । मुधालब्धम्-मायया आलापाद्यैपना(?)वर्जया प्राप्तम् । मुधाजीवी-जात्याद्यनाजीवकः । भुञ्जीत दोषवर्जितम्संयोजनादिदोषरहितम् । ।५.९९ ।।
(स.) एतद् भोजनं किम् ? - इत्याह-उप्पण्णं'इति-एवं पूर्वोक्तमरसादिकमशनादि साधुर्भुजीत, परं नातिहीलयेत् सर्वथा न निन्देत्, किंभूतमशनं ? विधिना प्राप्तमल्पं भवेत्, तदा नैवं ज्ञातव्यं वक्तव्यं वा, यत् किमेतदल्पमात्रं न देहपूरकमपि, तथा बहु वाऽसारप्रायं किमनेनाऽसारेण, किंभूतमशनं? फासुअं प्रासुकं, यस्मात् प्राणा गता निर्जीवं जातम्. अन्ये त्वाचार्या इत्थं व्याख्यां कुर्वन्ति अल्पशब्दाद् विरसादि वा बहु प्रासुकं सर्वथा शुद्धं नातिहीलयेत्, अपि त्वेवं भावयेत्-यदेवेह लोका ममानुपकारिणः प्रयच्छन्ति तदेव शोभनमिति. किंभूतमशनं ? मुधा लब्धं मन्त्रतन्त्रादिना अप्राप्तं, किंभूतः साधुः ? मुधाजीवी सर्वथाऽनिदानजीवी, अन्ये वदन्ति जात्यादिना न जीवी, एवंविधमशनादिदोषवर्जितं संयोजनादिदोषवर्जितं साधुर्भुजीत. ।।५.९९ ।। __(सु.) एतद् भोजनं किं ? - इत्याह-'उप्पन्नं'इति सूत्रं, उत्पन्नं-विधिना प्राप्तं, नातिहीलयेत्-सर्वथा न निन्दयेत्, अल्पमात्रमेतत् न देहपूरकमिति किमनेन ? बहु वा असारप्रायमिति । वाशब्दस्य व्यवहितः सम्बन्धः, किंविशिष्टं तत् ? - इत्याह-प्रासुकंप्रगतासु निर्जीवमित्यर्थः । अन्ये तु व्याचक्षते-"अल्पं वा, वाशब्दाद् विरसादि वा, बहु प्रासुकं-सर्वथा शुद्धं नातिहीलयेत्'इति, अपि त्वेवं भावयेत्-यदेवेह लोका ममानुपकारिणः प्रयच्छन्ति तदेव शोभनमिति, एवं मुधा लब्धं-कोण्टलकादिव्यतिरेकेण प्राप्तं, मुहाजीवीसर्वथा अनिदानजीवी, "जात्याद्यनाजीवक" इत्यन्ये, भुञ्जीत दोषवर्जितंसंयोजनादिरहितमिति ।।५.९९।।
दुल्लहा हु मुहादाई, मुहाजीवी वि दुल्लहा । मुहादायी मुहाजीवी, दोवि गच्छंति सोगई ति बेमि ।।५.१.१००।।
(ति.) एतद् दुरापमिति दर्शयन्नाह-स्वजना अमी, कुलगुखोऽमी, अस्मत्कुटुम्बेऽतीव ममत्वम्, अस्मान् प्रति बहुतमं वात्सल्यं कुर्वन्ति । इत्यादिकारणैरुपरोधं विना