________________
पञ्चमम् अध्ययनम्
११५
(सु.) संशयव्यपोहायोपायमाह-'उग्गमं'इति-उद्गम-तत्प्रसूतिरूपं, "से' तस्य शङ्कितस्य अशनादेः पृच्छेत् तत्स्वामिनं कर्मकरं वा, यथा कस्यार्थमेतत् ? केन वा कृतमेतदिति, श्रुत्वा तद्वचो न भवदर्थं, किं त्वन्यार्थमित्येवम्भूतं निःशङ्कितं शुद्धं सद् ऋजुत्वादिभावगत्या प्रतिगृह्णीयात् संयतः । विपर्ययग्रहणे दोषादिति ।।५.५६ ।।
असणं पाणगं वा वि, खाइमं साइमं तहा | पुप्फेसु हुज्ज उम्मीसं, बीएसु हरिएसु वा ।।५.१.५७।।
तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ||५.१.५८।।
(ति.) इह तृतीयार्थे सप्तमी । पुष्पै/जैर्हरितैः उन्मिश्रम् ||५७।।, स्पष्टः ।।५८ ।।
(स.) पुनः कीदृशं न गृह्णीयात् ? - तद् आह-असणं'इति-अशनं पानकं वा पि खाद्यं स्वाद्यं तथा पुष्पैर्जाति-पाटलादिभिर्बीजैर्हरितैर्वा यदि उन्मिभं भवेत्, तदा संयतो न गृह्णीयात्. ।।५.५७ ।। ददतीं च किं वदेत् ?- तद् आह-तं'इति पूर्ववत्- ||५८ ।।
(सु.) तथा 'असणं'ति-अशनं पानकं वापि खाद्यं स्वाद्यं तथा, पुष्पैःजातिपाटलादिभिः भवेदुन्मिश्रं बीजैर्हरितैर्वेति ।।५.५७ ।।
'तं भवे' इति-तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवम् ?- अतो ददतीं प्रत्याचक्षीत-न मम कल्पते तादृशमिति सूत्रार्थः ।।५.५८ ।।
असणं पाणगं चेव खाइमं साइमं तहा । उदगंमि हुज्जा निक्खित्तं, उत्तिंगपणगेसु वा ।।५.१.५९ ।। तं भवे भत्तेपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.६०।। (ति.) स्पष्टः ।।५९-६०।।
(स.) पुनः कीदृशं न गृह्णीयादित्याह-असणमिति अशनं पानकं वापि खाद्यं १.जीवोना दर १० टि. ||