________________
दशवैकालिकं- टीकात्रिकयुतम्
११६
स्वाद्यं तथा यदि उदके सचित्तपानीयोपरि, अथवा उत्तिंगपनकेषु कीटिकानगरेषु निक्षिप्तं भवेत् तदा साधुर्न गृह्णीयात्. ।।५.५९ ।। ददतीं च वदेत् ? तद् आहतं इति - पूर्ववत् ।।५.६०।।
(सु.) तथा 'असणं' इति सूत्रं, अशनं पानकं वापि खाद्यं स्वाद्यं तथा, उदके भवेन्निक्षिप्तमुत्तिङ्गपनकेषु वा कीटिकानगरोल्लिषु वेत्यर्थः । उदकनिक्षिप्तं द्विविधंअनन्तरं परम्परं च, अनन्तरं नवनीतपोग्गलियमादि, परंपरं जलघडोवरिभायणत्थं दधिमादि, एवं उत्तिंगपणगेसु भावनीयमिति ।।५.५९ । ।
'तं भवे'इति सूत्रं, तद् भवेद् भक्तपानं तु संयतानामकल्पिकं, यतश्चैवम् ? अतो ददतीं प्रत्याचक्षीत-न मम कल्पते, तादृशमिति सूत्रार्थः ।।५.६० ।। तथा
असणं पाणगं चेव, खाइमं साइमं तहा ।
अ
हुज्ज निक्खित्तं तं च संघट्टिया दए ।।५.१.६१।।
तं भवे भत्तपाणं तु, संजयाण अकप्पियं ।
दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.६२।।
(ति.) अग्नौ भवेन्निक्षिप्तम् - आरोपितं दुग्धादि तन्मम भिक्षां ददत्या तापातिशयेन मा उद्भूत् । इत्यग्निं संघट्य अज्वलन्तं कृत्वा अशनादि दद्यात् ।।५.६१।।
(स.) पुनः कीदृशं न गृह्णीयादित्याह - असणमिति - अशनं पानकं खाद्यं स्वाद्यं यदि तेजसि अग्नौ निक्षिप्तं भवेत्, तं संघट्य भिक्षां दद्यात्, तदा साधुर्न गृह्णीयात्, कुतः दात्री संघट्टनं कुर्यात्, तत्रोच्यते-अहं यावद् भिक्षां ददामि तावता मा भूत्, तापातिशयेनोद्वर्तिष्यत इति ।। ६१ ।।
तदा ददतीं प्रति साधुः किं वदेदित्याह - तं इति पूर्ववत् ।।५.६२ ।।
(सु.) 'असणं'ति सूत्रं, अशनं पानकं वापि खाद्यं स्वाद्यं तथा, तेजसि भवेन्निक्षिप्तं, तेजसीत्यग्नौ तेजस्काय इत्यर्थः । तच्च सङ्घट्ट्य, 'यावद् भिक्षां ददामि तावत्
१. तेउम्मि 'इति पाठोऽन्यत्र मुद्रिते ।।