________________
११४
दशवैकालिकं-टीकात्रिकयुतम् उद्देसियं कीयगडं, पूइकम्मं च आहडं । अज्झोअरपामिच्चं, मीसजायं च वज्जए ।।५.१.५५ ।।
(ति.) औद्देशिकम-साधूद्देशेन दध्न ओदनस्य मीलनेन करम्बकरणम् । सङ्खण्डिकोद्धृत-मोदकचूर्णेन गुडपादादि क्षिप्त्वा मोदककरणं च । क्रीतम् प्रतीतम् । पूतिकर्मापि-आधाकर्मिकावयवमिश्रम् । आहृतम्-स्वग्रामालादि । अध्यवपूरकम्-स्वार्थ मूलाद्रहणादौ, साध्वर्थम् अधिकप्रक्षेपरूपम् । प्रामित्यम्-साध्वर्थमुद्धार्यानीय दानम् । मिश्रजातम्-गृही साध्वर्थं मूलत एव मिश्रमुपस्कृतं वर्जयेत् ।।५.५५।।
(स.) उद्देसि...इति-उद्दिश्य साधुनिमित्तं कृतमौद्देशिकं १, क्रीतकृतं द्रव्यभावभेदक्रयक्रीतं २, पूतिकर्म संभाव्यमानाधाकर्मावयवैः संमिश्रम् ३, अभ्याहृतं साधुनिमित्तं ग्रामादेरानीयमानं ४, तथा अध्यवपूरकं स्वार्थं मूलाद्रहणे साधुनिमित्तं प्रक्षेपरूपं ५, प्रामित्त्यं साधुनिमित्तमुच्छिद्य दानलक्षणं ६, मिश्रजातं चादित एव गृहस्थ-संयतयोर्निमित्तं मिश्रमुपसंस्कृतम् ७, एतादृशं सर्वमशनादि साधुर्वर्जयेत्, परं न गृह्णीयात्. ।।५.५५ ।।
(सु.) किंच-'उद्देसिअं'इति-उद्दिश्य कृतमौद्देशिकं-उद्दिष्टकृतकर्मादिभेदं, क्रीतकृतंद्रव्य-भावक्रयक्रीतभेदं, पूतिकर्म च-सम्भाव्यमानाधाकावयवसंमिश्रलक्षणं, आहृतंस्वग्रामाहृतादि, तथाऽध्यवपूरकं-स्वार्थमूलाद्रहणप्रक्षेपरूपं, प्रामित्यं-साध्वर्थमुच्छिद्य दानलक्षणं, मिश्रजातं च-आदित एव गृहिसंयतमिश्रोपस्कृतरूपं वर्जयेदिति ।।५.५५।।
उग्गमं से पुच्छिज्जा, कस्सट्टा केण वा कडं ? | सुच्चा निस्संकियं सुद्धं, पडिगाहिज्ज संजए ||५.१.५६ ।।
(ति.) औद्देशिकादिसन्देहे किं कुर्यादित्याह-उद्गमं से-तस्य शङ्कितस्यान्नादेः पृच्छेत् तत्स्वामिनं कर्मकरं वा । कस्यार्थं केन वा कृतमेतद् । न भवदर्थं किन्त्वन्यार्थमिदमिति तद् वचः श्रुत्वा निःशङ्कितं शुद्ध प्रतिगृहणीयात् संयतः | विपर्यये दोषात् ।।५.५६ ।।
(स.) अथोद्गमादिदोषस्य सन्देहदूरीकरणायोपायमाह-उग्गमं'इति-संयतः साधुः शुद्धमशनादि निर्दोषं सत् प्रतिगृह्णीयात्, कथं ? पूर्वं तत्स्वामिनं कर्मकरं वा 'से' तस्याशनादेः शङ्कितस्योद्गमं तन्निष्पत्तिरूपं पृच्छेत्, यथा कस्यार्थमेतत् केन वा कृतमेतत्, ततः किं कृत्वा ? इति तद्वचः श्रुत्वा, इतीति किं? न भवदर्थमिदमशनादि कृतं, किन्त्वन्यार्थमिति निःशङ्कितं शङ्कारहितम् ।।५.५६ ।।