________________
पञ्चमम् अध्ययनम्
१०९ (ति.) तथा स्तनं पाययन्ती दारकं वा कुमारिकां वा । तद् दारकादि निक्षिप्य रुदद् भूमौ आहरेत् पानभोजनम् । तत्र बालस्य स्तन्यपानान्तरायः | मार्जारादितश्चापायः ।।५.४२।।
(स.) पुनः कथं न गृह्णीयात् ? - इत्याह-थणगं'इति-एवंविधा स्त्री यदि पानभोजनमाहरेद् दद्यात् तदा साधुर्न गृह्णीयात्, किं कुर्वती ? दारकं बालकं दारिकां च बालिकां, वा शब्दान्नपुंसकं स्तनं पाययंती, किं कृत्वा ? तद् दारकादि रुदत् सद् भूम्यादौ निक्षिप्य, अयमत्र सम्प्रदायः-गच्छवासी साधुर्यदि बालकादिः स्तनजीवी भवति स्तनं च पिबन् वर्तते, स रुदन्नरुदन् वा भवतु, परं तं बालकादिकं भूम्यादौ निक्षिप्याहारं दद्यात् तदा न गृह्णीयात्, अथ बालकादिः स्तन्यं पिबति, अन्यद् भोजनमपि करोति, परं निक्षिप्यमाणो रोदिति, तदाप्याहारं दीयमानं न गृह्णीयात्, अथ नो रोदनं करोति तदा गृह्णीयात्, अथ स्तनजीवी वर्तते, परं तत्समये निक्षिप्यमाणः स्तन्यपानं न कुर्वाणोऽस्ति, परं निक्षिप्यमाणो रोदनं करोति, तदापि स्त्रिया दीयमानमाहारं नो गृह्णीयात्, अथ न कुर्वाणोऽस्ति तदा गृह्णीयात्, अथान्नमाहर्तुमारब्धोऽस्ति, परं स्तन्यं पिबन्नस्ति, तदा रोदनं करोतु वा मा वा साधुन गृह्णीयात्, अथापिबन्नपि यदि रोदिति, तदापि न गृह्णीयात्. अत्र शिष्यः प्राहएवमाहारग्रहणे को दोषः ? गुरुराह-खरहस्तैर्बालकादेर्भूम्यादौ निक्षिप्यमाणस्य अस्थिरत्वेन परितापनादोषो भवेत्, मार्जारो वा तं बालादिकमपहरेत्. ।।५.४२ ।।
(सु.) किञ्च'थणगं', स्तनं(न्यं) पाययन्ती, किमित्याह-दारकं कुमारिकां वा, वाशब्दस्य व्यवहितः सम्बन्धः, अत एव नपुंसकं वा, तद् दारकादि निक्षिप्य रुदन् भूम्यादी आहरेत् पानभोजनं, अत्रायं वृद्धसम्प्रदायः "गच्छवासी जंइ थणजीवी पिबंतो निक्खित्तो तो न गिण्हइ, रोवउ वा मा वा, अह अन्नं पि आहारेइ, तो जइ न रोवइ, तो गिण्हइ, अह रोवइ तो न गेण्हइ, अह अपियंतो निक्खित्तो थणजीवी रोवइ तो न गेण्हति, अह ण रोवति तो गेहति । गच्छनिग्गया पुण जाव थणजीवी ताव रोवउ मा वा पियंतो वा अपियंतो वा न गिण्हंति, जाहे अन्नं पि आहारेउमाढत्तो हवइ, ताहे जइ पियंतओ रोवउ वा मा वा न गेण्हंति, अह अपियंतओ तो जइ रोवइ तो परिहरंति, अरोविए गिण्हंति, सीसो आह-को तत्थ दोसोत्थि ?, आयरिया भणंति-तस्स निक्खिप्पमाणस्स खरेहिं हत्थेहिं घेप्पमाणस्स अथिरत्तणेण परितावणादोसा मज्जाराइ वा अवहरिज्ज"त्ति ।।५.४२।।