________________
दशवैकालिकं-टीकात्रिकयुतम्
स्वकाय-व्यापारेण पुनरुत्तिष्ठेत्, तदा साधुस्तदीयहस्तादाहारं न गृह्णीयादिति, किंविशिष्टा गुर्विणी ? कालमासिणी कालमासवती गर्भाधानान्नवममासवतीत्यर्थः. ।।५.४० ।।
१०८
(सु.) किञ्च - सिया य' इति स्याच्च - कदाचिच्च श्रमणार्थं साधुनिमित्तं गुर्व्विणी पूर्वोक्ता कालमासवर्तिनी-गर्भाधानान्नवममासवर्त्तिनीत्यर्थः । उत्थिता वा यथा कथञ्चित् निषीदेत्, निषण्णा वा ददामीति साधुनिमित्तं, निषण्णा वा स्वव्यापारेण पुनरुत्तिष्ठेत् ददामीति साधुनिमित्तमेवेति ।।५.४० ।।
तं भवे भत्तपाणं तु, संजयाण अकप्पियं ।
दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.४१।।
( ति . ) तत्र किम् ? गुर्विण्या संयतार्थं कृतोत्थानया कृतासनया वा दीयमानं संयतानामकल्पिकम्। तस्याः तद्गर्भस्य वा कष्टसम्भवात् । शेषं स्पष्टम् ।।५.४१ ।।
(स.) तं' इति तादृशो दीयमान आहारः साधूनामकल्पिकः, अतस्तादृशमाहारं ददतीं च गुर्विणीं प्रति साधुः किं वदेत् ? - इदमाह - तद् भक्तपानं तु निषीदनेनोत्थानेन च दीयमानं संयतानां साधूनामकल्पिकं भवेदग्राह्यं स्यात्, इह चायं संप्रदायः- यदि सा गुर्विणी निषीदनमुत्थानं च न करोति, यथावस्थिता च सत्याहारं ददाति, तत् स्थविर-कल्पिकानां साधूनां कल्पते, जिनकल्पिकानां साधूनां तु न कल्पते, यतो जिनकल्पिकः प्रथमदिवसादारभ्य गुर्विण्या दीयमानमाहारं न गृह्णातीति. यतश्चैवमाचारस्ततो गुर्विणीं तादृशमाहारं दीयमानां प्रत्याचक्षीत वदेत्, किं वदेत् ? तादृशं भक्तपानं मम न कल्पते. ।।५.४१ ।।
(सु.) 'तं भवे'इति, तद् भवेद् भक्तपानं तु तथानिषीदनोत्थानाभ्यां दीयमानं संयतानामकल्पिकं, इह च " स्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थिततया दीयमानं कल्पिकं, जिनकल्पिकानां तु आपन्नसत्त्वया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेव"इति सम्प्रदायः । यतश्चैवम् ? - तो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमित्येतत् पूर्ववदेवेति ।।५.४१।।
थणगं 'पज्जोमाणी, दारगं वा कुमारियं ।
तं निक्खिवित्तु रोयंतं, आहरे पानभोयणं ।। ५.१.४२ ।।
१. ०तम् ६-१०.१२ ।। २.पि. ६- १०.१२ ।। पिज्ज (जे) माणी इति मुद्रितोऽन्यत्र पाठः ।।