________________
पञ्चमम् अध्ययनम्
१०७
निमन्त्रयेयाताम्, तत्रायं विधिः- दीयमानं प्रतीच्छेद् गृह्णीयात्, यत् तत्रैषणीयं भवेत् तदन्य-दोषरहितमिति । । ५.३८ ।।
(सु.) तथा 'दुण्हं तु' द्वयोस्तु पूर्ववद् भुञ्जतोर्भुञ्जानयोर्वा द्वावपि तत्राभि (ति) प्रसादेन निमन्त्रयेयाताम्, तत्रायं विधिः दीयमानं प्रतीच्छेत् गृह्णीयात् यत् तत्रैषणीयं भवेदिति, तदन्यदोषरहितमिति ।।५.३८ ।।
गुव्विणीए उवण्णत्थं, विविहं पाणभोयणं ।
भुंजमाणं विवज्जित्ता, भुत्तसेसं पडिच्छए ।।५.१.३९ ।।
(ति.) विधिविशेषमाह-गुर्विण्या उपन्यस्तम्- उपकल्पितम् । विविधम्द्राक्षापानखण्डखाद्यादि पानभोजनम् । तया भुज्यमानं विवर्जयेत् । मा भूत् तस्या अल्पत्वेनाभिलाषानिवृत्तौ गर्भपातादिदोषः । भुक्तशेषम् - भुक्तोद्धरितं प्रतीच्छेत् ।।५.३९ ।।
(स.) विधिविशेषमाह-गुव्विणीए इति-गुर्विण्या गर्भवत्या, उपन्यस्तमुपकल्पितं, किं तदित्याह-विविधमनेकप्रकारं पानभोजनं द्राक्षापान - खण्डखाद्यादि, तत्र भुज्यमानं तया विवर्जयेत्. मा भवतु तस्य भोजनग्रहणेऽल्पत्वेन तस्या अनिवृत्तिः, अनिवृत्तौ च गर्भपातदोषः स्यात्, अथं च भुक्तशेषं भुक्तोद्धरितं तु प्रतीच्छेत्, यत्र पान-भोजने तस्या अभिलाषो निवृत्तो भवेत् ।।५.३९ ।।
(सु.) विशेषमाह-'गुव्विणीए 'इति, गुर्विण्या-गर्भवत्या, उपन्यस्तं-उपकल्पितं, किं तद् ?-इत्याह-विविधं - अनेकप्रकारं पान - भोजनं द्राक्षापान - खण्डखाद्यकादि, तत्र भुज्यमानं तया विवर्ज्यं मा भूत् तस्या अल्पत्वेनाभिलाषानिवृत्त्या गर्भपातादिदोष इति । भुक्तशेषं-भुक्तोद्धरितं प्रतीच्छेत्, यत्र तस्या निवृत्तोऽभिलाष इति ।।५.३९ ।।
·
सिया य समणट्ठाए, गुव्विणी कालमासिणी ।
उट्टिया वा निसीइज्जा, निसन्ना वा पुणुट्ठए ।।५.१.४० ।।
(ति.) किञ्च - स्यात् कदाचित् श्रमणार्थं गुर्विणी कालमासिनी - गर्भाधानान्नवम - मासवती । उत्थिता-ऊर्ध्वस्था सती दानाय निषीदेत् । निषन्ना वा सती उत्तिष्ठेत् ।। ५.४० ।।
(स.) किञ्च-सिया-इति एवंविधा गुर्विणी स्त्री स्यात् कदाचिच्छ्रमणार्थं साधुनिमित्तं साधवे दानं ददामीति बुद्ध्योत्थिता सती निषीदेत्, वा अथवा निषण्णा सती