________________
१०६
दशवैकालिकं-टीकात्रिकयुतम् (सु.) "संसटेण'इति संसृष्टेन हस्तेनाऽन्नादिलिप्तेन, तथा दा भाजनेन वा दीयमानं प्रतीच्छेत्-गृह्णीयात्, किं सामान्येन ?, न, इत्याह-यत् तत्रैषणीयं भवति, तदन्यदोष-रहितमित्यर्थः । इह च वृद्धसम्प्रदायः-"संसटे हत्थे संसट्टे मत्ते सावसेसे दवे, संसट्टे हत्थे संसट्टे मत्ते निरवसेसे दवे, एवं अट्ठभंगा, एत्थ पढमो भंगो सव्वुत्तमो, अन्नेसु वि जत्थ सावसेसं दव्वं तत्थ घेप्पइ, न इयरेसु, पच्छाकम्मदोसाओ" त्ति ||५.३६।।
दुण्हं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिज्जमाणं न इच्छिज्जा, छंदं से पडिलेहए ।।५.१.३७।।
(ति.) स्पष्टः | नवरम् । छन्दम्-अभिप्रायम् । 'से-तस्य द्वितीयस्य प्रत्युपेक्षेत । इष्टं चेत् तस्य दीयमानं तदा गृह्णीयात् । न चेन्नैव ।।५.३७ ।।
(स.) दुण्हं...इति किञ्च द्वयोर्भुजतोः पालनं कुर्वतोः, एकस्य वस्तुनो नायकयोरित्यर्थः, एकस्तत्र निमन्त्रयेत्, तद्दानं प्रत्यामन्त्रयेत्, तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु छन्दमभिप्रायं से तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवक्त्रविकारैः, किमस्येदं दीयमानमिष्टं न वेति, इष्टं च गृह्णीयात्, नो चेन्नेति. एवं भुजानयोरभ्यवहार उद्यतयोरपि योजनीयं, यतो भुजिधातुः पालनेऽभ्यवहारे च वर्तत इति. ।।५.३७ ।।
(सु.) किं च–'दोण्हं तु'इति, द्वयोर्भुजतोः पालनां कुर्वतोः, एकस्य वस्तुनो नायकयोरित्यर्थः। एकस्तत्र निमन्त्रयेत्-तद्दानं प्रत्यामन्त्रयेत्, तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु छन्दं-अभिप्रायं, 'से-तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्र-वक्त्रविकारैः, किमस्येदमिष्टं दीयमानं न वेति, इष्टं चेत् गृह्णीयात्, न चेत्, न इति । एवं भुजानयोः-अभ्यवहारायोद्यतयोरपि योजनीयं । यतो "भुजिः-पालने अभ्यवहारे च" [ ] वर्तत इति ।।५.३७।।
दोण्हं तु भुंजमाणाणं, दो वि तत्थ निमंतए । दिज्जमाणं पडिछिज्जा, जं तत्थेसणियं भवे ।।५.१.३८।। (ति.) स्पष्टः ।।५.३८।। (स.) दुण्हं...इति तथा द्वयोस्तु पूर्ववद् भुजतो जानयोभवपि तत्रातिप्रसादेन