________________
पञ्चमम् अध्ययनम्
१०५ तथा 'गेरुय'इति, गैरु(रि)को-धातुः, वर्णिका-पीतमृत्तिका, सेटिका-खटिका, श्वेतिका-शुक्लमृत्तिका, सौराष्ट्रिका-तुवरिका, पिष्टं-आमतण्डुलक्षोदः, कुक्कुसाः-प्रतीताः, कृतेनेत्येभिः कृतेन, हस्तेनेति गम्यते । तथा उत्कृष्ट इत्युत्कृष्टशब्देन कालिङ्गाऽलाबु-त्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते । चिञ्चिणिकादिपत्रसमुदायो वा उदुखलख(क)ण्डित इति, तथाऽसंसृष्टो व्यञ्जनादिनाऽलिप्तः, संसृष्टश्चैव व्यञ्जनादिलिप्तो बोद्धव्यो हस्त इति । विधिं पुनरत्रोचं स्वयमेव वक्ष्यतीति ।।५.३४।।
असंसद्रुण हत्थेण, दव्वीए भायणेण वा । दिज्जमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे ||५.१.३५।।
(ति.) असंसृष्टेन-अन्नाद्यलिप्तेन । हस्तेन, दा भाजनेन च दीयमानं न इच्छेत् । यत्र हस्तादेः क्षालनादिरूपं पश्चात् कर्म भवति । निर्लेपं तु मण्डकादि गृह्णीयात् ||५.३५।।
(स.) असंसट्ठ...इति असंसृष्टेन हस्तेन अन्नादिभिरलिप्तेन, तथा दा भाजनेन वा दीयमानं नेच्छेन्न गृह्णीयात्, किं सामान्येन नेत्याह-पश्चात्कर्म यत्र भवति दादौ, शुष्कमण्डकादि तदन्यदोषरहितं गृह्णीयादिति. ।।५.३५।। __ (सु.) आह च-असंसट्टेण'इति, असंसृष्टेन हस्तेनान्नादिभिरलिप्तेन दा भाजनेन वा दीयमानं नेच्छेत्, किं सामान्येन ?, न, इत्याह-पश्चात्कर्म यत्र भवति दध्यादौ, शुष्कमण्डकादिवत्, तदन्यदोषरहितं गृह्णीयादिति ।।५.३५।।
संसट्टेणं तु हत्येणं, दबीए भायणेण वा । दिज्जमाणं पडिछिज्जा, जं तत्थेसणियं भवे ।।५.१.३६ ।।
(ति.) संसृष्टेन-अन्नादिलिप्तेन । हस्तादिना दीयमानं प्रतीच्छेत् । यत् तत्रैषणीयम्अन्यदोषरहितं भवेत् ।।५.३६ ।।
(स.) संसट्ठ...इति संसृष्टेन हस्तेना-ऽन्नादिलिप्तेन, तथा दा भाजनेन वा दीयमानं प्रतीच्छेद् गृह्णीयात्, किं सामान्येन नेत्याह-यत् तत्रैषणीयं भवति तदन्यदोषरहितमित्यर्थः ।।५.३६ ।।