________________
१०४
दशवैकालिकं-टीकात्रिकयुतम्
गेरुयवन्निय सेडिया-सोरट्ठियपिट्ठकुक्कुसकए य । उक्कट्ठमसंसट्टे, संसट्टे चेव बोधव्वे ।।५.१.३४ ।। युग्मम्
(ति.) उदकार्द्रेण-गलदुदकबिन्दुना । सस्निग्धेन - ईषदुदकयुक्तेन । सरजस्केनपृथ्वी- रजोगुण्डितेन । मृतिका कर्दमस्तद्युक्तेन । तथा ऊषः पांशुक्षारः । हरितालः हिंगुलकः मनःसिला । अञ्जनम् - सौवीरादि । लवणम् - सामुद्रादि । गैरिकः-धातुः । वर्णिका-पीतमृत्तिका । श्वेतिका-खटिका । सौराष्ट्रिका - तुवरी । पिष्टम् - आमतण्डुलक्षोदः । कुक्कुसाः प्रतीताः । कृतेनेति - एभिर्गुण्डितेन हस्तादिनेति गम्यम् । उत्कृष्ट इति उत्कृष्टशब्देन कालिङ्गालाबुपुष्पफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डान्युच्यन्ते । चिञ्चिणिकादिपत्रसमुदायो वा उदूखलखण्डितः । असंसृष्टेन - व्यञ्जनादिनालिप्तेन संसृष्टेन-लिप्तेन । बोधव्यो हस्त इति विधिमूर्ध्वं स्वयमेव वक्ष्यति ।। ५.३३,५.३४ । ।
(स.) एवं उदउल्ल इति पुनरप्येवमुदकार्द्रेण गलत्पानीयबिन्दुयुक्तेन हस्तेन, एवं सस्निग्धेन ईषत्पानीययुक्तेन हस्तेन २, एवं सरजस्केन पृथिवीरजोवगुण्डितेन हस्तेन ३. एवं मृद्गतेन कर्दमयुक्तेन हस्तेन ४ एवं ऊषः पांशुक्षारः तद्युक्तेन हस्तेन, तथा हरिताल-हिङ्गुलक-मनःशिला एते सर्वे पार्थिवा वर्णकभेदाः, अञ्जनं रसाञ्जनादि, लवणं सामुद्रादि, ततो हरितालादियुक्तेन हस्तेन ।।५.३३ ।।
गेरुअ...इति-तथा गैरिको धातुः, वर्णिका पीतमृत्तिका, सेटिका खटिका, सौराष्ट्रिका तुवरिका, पिष्टम् आमतन्दुलक्षोदः, कुकुसाः प्रतीताः कृतेनेति एभिः कृतेन, एभ्यः खरण्टितेन, हस्तेनेति शेषः, तथा उत्कृष्ट इति, उत्कृष्टशब्देन कालिङ्गा - ऽलाबुत्रपुसफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते, चिञ्चिणिकादिपत्रसमुदायो वा उदूखलकण्डित इति-तथा असंसृष्टो व्यञ्जनादिनाऽलिप्तः, संसृष्टश्चैवं व्यञ्जनादिना लिप्तो बोद्धव्यो हस्त इति विधिं पुनरत्रोर्ध्वं स्वयमेव वक्ष्यतीति ।।५.३४ ।।
(सु.) एवं-'एवं’[इति] उदकार्द्रेण, हस्तेन करेण, उदकार्द्रो नाम गलदुदकबिन्दुयुक्तः । एवं सस्निग्धेन हस्तेन सस्निग्धो नाम ईषदुदकयुक्तः, एवं सरजस्केन हस्तेनसरजस्को नाम पृथिवीरजोगुण्डितः । एवं मृद्गतेन हस्तेन, मृद्गतो नाम कर्द्दमयुक्तः । एवं ऊषादिष्वपि योज्यं । एतावन्त्येव एतानि सूत्राणि नवरमूषः पांशुक्षारः, हरितालहिङ्गुलक- मनःशिलाः पार्थिवाः वर्णकभेदाः, अञ्जनं रसाञ्जनादि, लवणं - सामुद्रादि ।।५.३३ ।।