________________
पञ्चमम अध्ययनम्
१०३ मुखमाकृष्य करादिभिश्चालयित्वोदकमेव ददाति. उदके नियमादनन्तवनस्पतिः' इति प्राधान्यख्यापनार्थं 'सचित्तं घट्टइत्ताणम्' इत्युक्तेऽपि. भेदेनोपादानम्, अस्ति चायं न्यायः-यदुत-सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थं भेदेनोपादानं, यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति. ततश्च उदकं चालयित्वा आहरेदानीय दद्यात्, किं तदित्याहपान-भोजनमोदना-ऽऽरनालादि, तदित्थंभूतं ददतीं प्रत्याचक्षीत, न मे मम कल्पते तादृशम् ।।५.३१।।
(सु.) तथा ओगाहइत्ता-अवगाह्य-उदकमेवात्मनोऽभिमुखमाकृष्य ददाति। तथा चालयित्वा उदकमेव ददाति, उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थं सचित्तं घट्टयित्वेत्युक्तेऽपि भेदेनोपादानं, अस्ति चायं न्यायः-"यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थं भेदेनोपादानं, यथा-ब्राह्मणा आयाता, वशिष्टोऽप्यायात" इति, ततश्च-उदकं चालयित्वा आहरेद् आनीय दद्यादित्यर्थः । किं तदित्याह-पानभोजनंओदना-ऽऽरनालादि । तदित्थम्भूतां ददतीं प्रत्याचक्षीत-निराकुर्यात्- न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रद्वयार्थः ।।५.३१ ।।
पुरेकम्मेण हत्थेण, दबीए भायणेण वा । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.३२।।
(ति.) पुरःकर्म-दानात् पूर्वमप्कायेन क्षालनं यस्य हस्तादेस्तेन हस्तेन । दा भाजनेन करोटिकादिना । शेषं प्राग्वत् ।।५.३२ ।।
(स.) पुरेकम्मेण...इति-पुरस्कर्मणा हस्तेन साधुनिमित्तं पूर्वं कृतसचित्तपानीयत्यजनव्यापारेण, तथा दा डोव[=डोयो]सदृशया, भाजनेन वा कांस्यभाजनादिना ददतीं प्रत्याचक्षीत न मम कल्पते तादृशम् ।।५.३२।।
(सु.) 'पुरेकम्मे इति, पुरः कर्मणा हस्तेन-साधुनिमित्तं प्राक्कृतजलोज्झनव्यापारेण, तथा दा-डोवसदृशया, भाजनेन वा-कांस्यभाजनादिना ददतीं प्रत्याचक्षीत-प्रतिषेधयेत्, न मम कल्पते तादृशमिति पूर्ववदेव इति सूत्रार्थः ।।५.३२ ।।
उदउल्ले ससिणिद्धे, ससरक्खे मट्टियाऊसे । हरियाले हिंगए, मणोसिला अंजणे लोणे ||५.१.३३।।