________________
दशवैकालिकं- टीकात्रिकयुतम्
प्राणिनो-द्वीन्द्रियादीन्, बीजानि - शालिबीजादीनि, हरितानि - दूर्वादीनि, असंयमकरीसाधुनिमित्तमसंयमकरणशीलां ज्ञात्वा तादृशीं परिवर्जयेत्, ददतीं प्रत्याचक्ष ।।५.२९ ।।
१०२
साहट्टु निक्खिवित्ताणं, सचित्तं घट्टियाणि य । तहेव समणट्टाए, उदगं संपणुल्लिया ।।५.१.३० ।।
( ति.) संहृत्य करोटिकादेः सिक्थादि । सचित्तोपरि निक्षिप्य । सचित्तम्बीजहरितपुष्पादि । घट्टयित्वा तथैव श्रमणार्थम् । उदकं भाजनस्थम् सम्प्रणुद्यप्रेर्य ।।५.३० ।।
(स.) साह..इति संहृत्यान्यस्मिन् भाजने ददाति तथा अदेयं भाजनगतं षड्जीवनिकायेषु निक्षिप्य ददाति तथा सचित्तमलातपुष्पादि घट्टयित्वा सञ्चाल्य च ददाति, तथैव श्रमणार्थं यतिनिमित्तमुदकं पानीयं सम्प्रणुद्य भाजनस्थं प्रेर्य ददाति, तदा साधुः किं करोति ? तद्द्द्विधिमग्रगाथायां वक्ष्यति ।। ५.३० ।।
(सु.) 'साहट्टु' इति, संहृत्यान्यस्मिन् भाजने ददाति, "तं फासुगमवि वज्जए, तत्थ फासुए फ़ासुयं साहरइ, फासुए अफासुयं साहरइ, अफासुए फासुयं साहरइ, अफासुए अफासुयं साहरइ ४, तत्थ जं फासुए फासुयं साहरइ, तत्थ वि थेवे थेवं साहरइ, थेवे बहुं साहरइ, बहुए थेवं साहरइ, बहुए बहुयं साहरइ ४" एवमादि यथा पिण्डनिर्युक्तौ। तथा निक्षिप्य भाजनगतमदेयं षड्जीवनिकायिकेषु ददाति तथा सचित्तं - अलातपुष्पादि घट्टयित्वा - संचाल्य च ददाति । तथैव श्रमणार्थं प्रव्रजितनिमित्तमुदकं संप्रणुद्य भाजनस्थं प्रेर्य ददाति ।।५.३० ।।
आगाहइत्ता चलइत्ता, आहारे पाणभोयणं ।
दिंतियं पडियाइक्खे, न मे कप्पइ तारिसं ।। ५.१.३१।।
(ति.) वर्षासु गृहाङ्गणादिरहितं जलम् अवगाह्य । चलयित्वा तन्निर्गमार्थं वाहं कृत्वा। आहरेत-आनयेत् । पानभोजनम् । शेषं प्राग्वत् ।।५.३१।।
(स.) आगह...इति-तथा वर्षांषु गृहाङ्गणस्थितं जलम् - अवगाह्योदकमेवात्मनोऽभि
१. 'ओगाहइत्ता' मुद्रितोऽन्यत्र पाठः ।। २. ०त् पान. ६-१०.१२ ।।