________________
१०१
पञ्चमम् अध्ययनम् गृह्णीयात्, प्रतिगृह्णीयात् कल्पिकं-एषणीयं, एतच्चार्थापन्नमपि कल्पिकग्रहणं, द्रव्यतः शोभनमशोभनमपि एतदविशेषेण ग्राह्यमिति दर्शनार्थं साक्षादुक्तमिति ।।५.२७।।
आहरंती सिया तत्थ, परिसाडिज्ज भोयणं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.२८।।
(ति.) आहरंती-आनयन्ती । स्यात् कदाचिद् दात्री परिशाटयेत् सिक्थादि ददतीं प्रत्याचक्षीत् न मे कल्पते तादृशम् । अत्र घृतबिन्दुदृष्टान्तः |
(स.) आहरन्ती इति-अगारी, भिक्षामिति शेषः, आहरन्ती आनयन्ती स्यात् कदाचित तत्र देशे परिशाटयेत् सिक्यादि, इतश्चेतश्च विक्षिपेद भोजनं वा पानं वा, ततः किमित्याह-ददतीं तां स्त्रियं प्रत्याचक्षीत, कथं प्रत्याचक्षीतेत्यत आह-न मे मम कल्पते तादृशं परिशाटनासहितं सिद्धान्तोक्तदोषप्रसङ्गात्, दोषांश्च भावं च ज्ञात्वा कथयेन्मधु-बिन्दूदाहरणादिना. ।।५.२८ ।। ___ (सु.) आहरन्ति त्ति,'आहरंती आनयन्ती भिक्षामगारी इति गम्यते, स्यात् तत्र कदाचित्, तदेकदेशं परिशाटयेत्-इतश्चेतश्च विक्षिपेत् भोजनं वा पानं वा, ततः किमित्याह-ददतीं प्रत्याचक्षीत-प्रतिषेधयेत् तामगारी । स्त्रियो हि प्रायो भिक्षां ददतीति स्त्रीग्रहणं, कथं प्रत्याचक्षीतेत्याह-न मे-मम कल्पते तादृशं परिशाटनावत्, समयोक्तदोषप्रसङ्गात्, दोषांश्च भावं ज्ञात्वा कथयेत् मधुबिन्दूदाहरणादिनेति ।।५.२८ ।।
संमद्दमाणी पाणाणि, बीयाणि हरियाणि य । असंजमकरि नच्चा, तारिसिं परिवज्जए ।५.१.२९।। (ति.) स्पष्टः । नवरम् । असंजमकरिम्-साधुनिमित्तमसंयमकरणशीलाम् ।।
(स.) संमद्द... इति-सम्मर्दयन्तीं पद्भ्यां समाक्रामन्ती, कानि ? इत्यत आहप्राणिनो द्वीन्द्रियादीन्, बीजानि शालिबीजादीनि, हरितानि दूर्वादीनि, असंयमकरी साधुनिमित्तमसंयमकरणशीलां ज्ञात्वा तादृशीं परिवर्जयेत्, ददतीं प्रत्याचक्षीतेति. ||५.२९ ।।
(सु.) किं च–'सम्मद्द'इति, संमईयन्ती पद्भ्याम् समाक्रामन्ती, कान् ?-इत्याह
१. अन्यत्र द्रष्टव्यम् ।। २.०यंति १.३-५ ।।