________________
900
दशवैकालिकं-टीकात्रिकयुतम्
दगमट्टियआयाणे, बीयाणि हरियाणि य । परिवज्जितो चिट्टिज्जा, सव्विंदियसमाहिए ।।५.१.२६।।
(ति.) तथा—उदकमृत्तिकादानम् - आदीयतेऽनेन आदानो मार्गः, उदकमृत्तिकानयनमार्गमित्यर्थः। शेषं स्पष्टम् ।।५.२६।।
(स.) दग...इति-पुनः किम्भूतो मुनिः ? एतानि परिवर्जयंस्तिष्ठेत् पूर्वोक्त उचितप्रदेशे, कानि ? उदकमृत्तिकयोरानयनमार्गं, पुनर्बीजानि शाल्यादीनि हरितानि दूर्वादीनि, चशब्दादन्यान्यपि सचेतनानि, किंभूतो मुनिः ? सर्वेन्द्रियसमाहितः शब्दादिभिरव्याक्षिप्तः ।।५.२६ ।।
(सु.) किंच - 'दग 'इति उदकमृत्तिकादानं आदीयतेऽनेनेत्यादानो-मार्गः, उदकमृत्तिकानयन-मार्गमित्यर्थः । बीजानि - शाल्यादीनि 'हरितानि च' दूर्वादीनि, चशब्दादन्यानि च सचेतनानि परिवर्जयन्, तिष्ठेदनन्तरोदिते देशे सर्वेन्द्रियसमाहितः, शब्दादिभिरव्या-(नाक्षि) प्त इति ।।५.२६ ।।
तत्थ से चिट्टमाणस्स आहरे पाणभोयणं ।
अकप्पियं न इच्छिज्जा, पडिगाहिज्ज कप्पियं ।।५.१.२७ ।।
.
(ति) तत्रोचितभूमौ तस्य तिष्ठतः दात्री आहरेत्-आनयेत् ।
पानभोजनयोग्यवस्तु पानभोजनम् । उत्तरार्धं स्पष्टम्
अत्राशङ्क्योत्तरम्-अकल्प्यनिषेधे कल्प्यग्रहणं सिद्धमेव परं द्रव्यतः शोभनमशोभनं वा कल्प्यं ग्राह्यमिति दर्शनार्थं तदप्युक्तम् ।।५.२७ ।।
(स.) तत्थ... .. इति-तत्रोचितभूमौ से तस्य साधोस्तिष्ठतः सतो गृहीति शेषः, पानभोजन-माहरेदानयेत् ।
तत्रायं विधिः-अकल्पिकमनेषणीयं न गृह्णीयान्न इच्छेत्, प्रतिगृह्णीयात् कल्पिकम्, एतच्चार्थापन्नमपि कल्पिकग्रहणं द्रव्यतः शोभनमशोभनमपि एतदविशेषेण ग्राह्यमिति दर्शनार्थं साक्षादुक्तमिति. ।।५.२७ ।।
(सु.) 'तत्थ से' इति, तत्र कुलोचितया भूमौ 'से'- तस्य साधोस्तिष्ठतः सतः, आहरेद्-आनयेत् पानभोजनं गृहीति गम्यते । तत्रायं विधिः - अकल्पिकं - अनेषणीयं न