________________
९९
पञ्चमम् अध्ययनम्
(स.) अइभूमि-इति-पुनरपि मुनिरतिभूमिर्गृहस्थैर्या नानुज्ञाता, यत्रान्ये भिक्षाचरा न यान्ति तामतिभूमिं न गच्छेत्, किंभूतो मुनिः ? गोचराग्रप्रविष्टः । अनेन कथनेन अन्यदा गोचरी विना तत्र गमननिषेधमाह-किं तर्हि कुर्यात् ? कुलस्य भूमिमुत्तमादिरूपामवस्थां ज्ञात्वा मितां भूमिं गृहस्थैरनुज्ञातां पराक्रमेत्, यत्र तेषामप्रीतिर्न जायते. ।।५.२४ ।।
(सु.) तथा 'अइभूमिं न इति अतिभूमिं न गच्छेद्, अननुज्ञातां गृहस्थैः, यत्रान्ये भिक्षाचरा न यान्तीत्यर्थः । गोचराग्रगतो मुनिः, अनेनान्यदा तद्गमनासम्भवमाह-किं तर्हि ? कुलस्य भूमि-उत्तमादिरूपामवस्थां ज्ञात्वा मितां भूमिं तैरनुज्ञातां पराक्रमेत्, यत्रैषामप्रीतिर्न जायते इति ।।५.२४।।।
तत्येव पडिलेहिज्जा, भूमिभागं वियक्खणो | सिणाणस्स य वच्चस्स, संलोगं परिवज्जए ||५.१.२५।।
(ति.) विशेषमाह-तत्रैव-तस्यामेव भूमौ मितायां प्रत्युपेक्षेत । भूमिभागम्-उचितं भूप्रदेशम् । विचक्षणो-गीतार्थः । स्नानस्य वर्चसश्च संलोकं परिवर्जयेत् । तत्राप्रावृतस्त्रीदर्शनेन रागादिभावात् ।।५.२५।।
(स.) विधिशेषमाह-तत्थ-इति मुनिस्तत्रैव तस्यामेव मितायां भूमौ सूत्रोक्तविधिना भूमिभागमुचित-भूमिप्रदेशं प्रत्युपेक्षेत तत्र च तिष्ठेत, किंभूतो मुनिः ? विचक्षणो विद्वान, एतद्विशेषणेन केवलागीतार्थस्य भिक्षाटननिषेधमाह-पुनः स्नानस्य तथा वर्चसः संलोकं परिवर्जयेत्,
अयं परमार्थः-स्नानभूमि-कायिक्यादिभूमिसन्दर्शनं परिहरेत्, कुतः? प्रवचनलाघवप्रसङ्गात् अप्रावृतस्त्रीदर्शनाच्च रागादिसम्भवात्. ।।५.२५।।
(सु.) विधिशेषमाह-'तत्थेव'इति तत्रैव-तस्यामेव मितायां भूमौ, प्रत्युपेक्षेत सूत्रोक्तेन विधिना भूमिभाग-उचितं भूमिप्रदेशं, विचक्षणो-विद्वान्, अनेन केवलागीतार्थस्य भिक्षाटनप्रतिषेधमाह । तत्र च तिष्ठन् स्नानस्य तथा वर्चसः-विष्ठायाः संलोकं परिवर्जयेद्, एतदुक्तं भवति-स्नानभूमि-कायिकादिभूमिसंदर्शनं परिहरेत्, प्रवचनलाघवप्रसङ्गात्, अप्रावृतस्त्रीदर्शनाच्च रागादिभावादिति ।।५.२५।। १. स्थंडीलनी जग्या जोवामां आवे १० टि. ।।