SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकं-टीकात्रिकयुतम् (सु.) किं च-'एलगं'इति, एडकं-मेषं, दारकं-बालं, श्वानं-मण्डलं, वत्सकं वापिक्षुद्रवृषभलक्षणं कोष्ठके उल्लङ्घ्य पद्भ्याम् न प्रविशेत्, व्यूह्य वा-प्रेर्य वेत्यर्थः । संयतः-साधुः, आत्म-संयमविराधनादोषाल्लाघवाच्चेति ।।५.२२ ।। असंसत्तं पलोइज्जा, नाइदुरावलोयए । उप्फुल्लं न विनिज्जाए, नियट्टिज्ज अयंपिरो ।।५.१.२३।। (ति.) विधिविशेषमाह-असंसक्तं प्रलोकयेत्-न योषिदृष्टेर्दृष्टिं मीलयेदित्यर्थः | नातिदूरम्-दायकस्यैवागमनमार्गदेशं प्रलोकयेत् । परतश्चौरादिशङ्का स्यात् । उत्फुल्लम्विकसितनेत्रं गृहोपस्करमपि न विनिध्यायेत् । अदृष्टकल्याण इति लाघवोत्पत्तेः । निवर्तेत अलब्धेऽपि अजल्पन् दीनं दातृदोषं वा ।।५.२३ ।। (स.) अत्रैव विशेषदोषमाह-असंसत्तं-इति-असंसक्तं न प्रलोकयेत्, योषिदृष्टेदृष्टिं न मीलयेत्, रागोत्पत्ति-लोकोपघातदोषात्, तथा नातिदूरं प्रलोकयेत्, दायकस्यागमनमात्रप्रदेशं प्रलोकयेत्, चौरादिकशङ्कादोषात्, तथोत्फुल्लं विकसितलोचनं 'न विनिज्झाए' न निरीक्षेत गृहपरिच्छदमपि, अदृष्टकल्याण इति लाघवोत्पत्तेः, तथा निवर्तेत अलब्धेऽपि सति, परं किं कुर्वन् ? अजल्पन् दीनवचनमनुच्चरन्निति. ।।५.२३।। (सु.) इहैव विशेषमाह-'असंसत्तं इति असंसक्तं प्रलोकयेत् न योषिदृष्टेर्दृष्टिं मीलयेदित्यर्थः, रागोत्पत्तिलोकोपघातदोषात् । तथा 'नातिदूरं प्रलोकयेत्' दायकस्यागमनमात्रदेशं प्रलोकयेत, परतश्चौरादिशकादोषः । तथोत्फुल्लं-विकसितलोचनं 'न निज्झाए' इति-न निरीक्षेत, गृहपरिच्छदमप्यदृष्टकल्याण इति लाघवोत्पत्तेः । तथा निवर्तेत गृहादलब्धेऽपि सति, अजल्पन्-दीनवचनमनुच्चारयन्निति ।।५.२३ ।। अइभूमिं न गच्छिज्जा, गोयरग्गगओ मुणी । कुलस्स भूमिं जाणित्ता, मियं भूमिं परिक्कमे ।।५.१.२४।। (ति.) तथा अतिभूमिम्-यत्रान्ये भिक्षाचरा न यान्ति । तां गृहस्थैरननुज्ञातां न गच्छेत् । गोचराग्रगतो मुनिः । कुलस्य-श्रद्धालोरश्रद्धालोर्वा । भूमि-मर्यादां ज्ञात्वा । मितां भूमिम्-तदनुज्ञातां परिक्रामेत् ।।५.२४ ।। १. दृष्टि.६-०.१२ ।। २.०स्का. ८-१०, ०रिकर. ९.१२ ।। ३. परक्कमे इति मुद्रितपाठान्तरः |
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy