________________
९७
पञ्चमम् अध्ययनम् को दोष ? इत्याह-प्राणिनो दुष्प्रत्युपेक्षणीया भवन्ति, ईर्याशुद्धिर्न भवति. ।।५.२० ।।
(सु.) तहा(तथा) 'नीयदुवारं'इति-नीचनिर्गमप्रवेशं, तमसमिति-तमोवन्तं कोष्ठकंअपवरकं परिवर्जयेत्, न तत्र भिक्षां परिगृह्णीयात् सामान्यापेक्षया, सर्व एवंविधो भवतीत्याह-अचक्षुर्विषयो यत्र, न चक्षुषो व्यापारो यत्रेत्यर्थः । अत्र दोषमाह-प्राणिनो दुष्प्रत्युप्रेक्षणीया भवन्ति, ईर्याशुद्धिर्न भवतीति सूत्रार्थः ।।५.२० ।।
जत्थ पुष्पाई बीयाई, विप्पइन्नाई कुट्ठए । अहुणोवलित्तं उल्लं, दह्णं परिवज्जए ||५.१.२१।।
(ति.) ईदृशं दृष्ट्वा द्वारत एव निवर्तते । धर्मलाभमपि न कुर्यात् संयमात्मविराधनापत्तेः ।।५.२१।।
(स.) जत्थ'...इति किञ्च साधुरेतानि परिवर्जयेद् दूरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमस्यात्मनश्च विराधनाप्राप्तेः, एतानि कानि ?-इत्याह-पुष्पाणि जातिपुष्पादीनि, बीजानि शालिबीजानि, किंविशिष्टानि ? विप्रकीर्णान्यनेकधा विक्षिप्तानि, परिहर्तुमशक्यानीत्यर्थः. कुत्र ? कोष्ठके कोष्ठकद्वारे वा, तथा किं कृत्वा ? अधुना उपलिप्तं साम्प्रतमुपलिप्तमार्द्रकमशुष्कं कोष्ठकमन्यद् वा दृष्ट्वा. २१.
(सु.) किञ्च–'जत्थ'इति, यत्र पुष्पाणि-जातिपुष्पादीनि, बीजानि-शालिबीजादीनि, विप्रकीर्णानि-अनेकधा विक्षिप्तानि परिहर्तुमशक्यानीत्यर्थः । कोष्ठके कोष्ठकद्वारे वा, तथाऽधुनोपलिप्तं-साम्प्रतोपलिप्तं, आर्द्रकं -अशुष्कं, कोष्ठकमन्यद् वा दृष्ट्वा परिवर्जयेत्, दूरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमात्म-ऽऽविराधनापत्तेरिति ।।५.२१।।
एलगं दारगं साणं, वच्छगं वावि कुट्ठए । उल्लंघिउं न पविसे, विहूइत्ताण व संजए ||५.१.२२।। (ति.) किञ्च [जत्थ...इति] स्पष्टः । नवरम्, विहूइत्ताण व-विधूय वा प्रेर्येत्यर्थः ।
(स.) एलगं...इति-पुनः किञ्च संयतः साधुरेलकं मेषं, दारकं बालकं, श्वानं मण्डलं, वत्सकं वापि क्षुद्रवृषभलक्षणं कोष्ठके उल्लङ्घ्य पद्भ्यां न प्रविशेत्, व्यूह्य वा प्रेर्य न प्रविशेत्, आत्म-संयमविराधनादोषाल्लाघवाच्चेति. ।।५.२२ ।। १. उल्लंघिआ इति पाठोऽन्यत्र मुद्रिते ।।