________________
९६
दशवैकालिकं-टीकात्रिकयुतम्
गोयरग्गपविट्टे उ, वच्च मुत्तं न धारए ।
ओवासं फासुयं नच्चा, अणुन्नायंमि वोसिरे ।।५.१.१९।।
(ति.) विधिविशेषमाह । पूर्वमेव साधुना संज्ञाकायिकोपयोगं कृत्वा गोचरे प्रवेष्टव्यम् । कथञ्चिन्न कृतः अथवा कृतेऽपि पुनस्तत्कार्यं भवेत् तदैष विधिः- पूर्वार्धं स्पष्टम् । अवकासं प्रासुकम् ज्ञात्वा, अनुज्ञाप्य । अनुज्ञाते व्युत्सृजेत् ।
(स.) विधेः शेषमाह - गोअर ... इति - साधुर्गोचराग्रप्रविष्टस्तु वर्चो मूत्रं वा न धारयेत्, किन्तु अवकाशं प्रासुकं ज्ञात्वानुज्ञाप्य च व्युत्सृजेत्, अस्य वर्चो - मूत्रत्यजनविधेर्विषय ओघनिर्युक्तितो वृद्धसंप्रदायाच्च ज्ञातव्यः । । ५.१९ ।।
(सु.) ‘गोयरग्ग’इति-गोचराग्रप्रविष्टस्तु वर्चो मूत्रं वा न धारयेत्, अवकाशं प्रासुकं ज्ञात्वा-अनुज्ञाप्य व्युत्सृजेदिति । अस्य विषयो वृद्धसम्प्रदायादवसेयः, स चायं"पुव्वमेव साहुणा सन्नाकाइओवओगं काऊण गोयरे पविसियव्वं, कहिंचि (वि) न कओ, कए वा पुणो होज्जा ताहे वच्चमुत्तं न धारेयव्वं, जओ मुत्तनिरोहे चक्खु (क्खू ) वघाओ हवइ, वच्चनिरोहे य जीविओवघाओ, असोहणा अ आयविराहणा, जओ भणियं
" सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा ।
मुच्चइ अइवायाओ पुणो विसोही न याविरई ।।१।।" (ओघनि० ४७)
अओ संघाडि(ड)यस्स सयभायणाणि समप्पिय पडिस्सए पाणयं गहाय सन्नाभूमीए विहिणा वोसिरेज्जा," वित्थरओ जहा ओहनिज्जुत्ती ।।५.१९ ।।
नीयदुवारैं तमसं, कुट्टगं परिवज्जए ।
अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा ।।५.१.२०।।
(ति.) स्पष्टं नवरम् । तमसम् - सान्धकारं कोष्टकम् ।।५.२०।।
(स.) णीअ... इति - पुनः किञ्च साधुर्नीचद्वारं नीचनिर्गमप्रवेशं परिवर्जयेत्, न तत्र भिक्षां गृह्णीयात्, एवं तमसं तमोवन्तं कोष्ठकमपवरकं परिवर्जयेत्, सामान्यापेक्षया सर्व एवंविधो भवतीत्यत आह- अचक्षुर्विषयो यत्र न चक्षुर्व्यापारो भवेद् यत्रेत्यर्थः, तत्र
१. अणुन्नविअ इति मुद्रितेऽन्यत्र पाठः । २. नीचद्वारम् २ टी., नीचा १० टि. ।। ३. ०२. १, ०रि. १० ।। ४. अपवरकम् २ टि. ।।