________________
११०
दशवैकालिकं-टीकात्रिकयुतम् तं भवे भत्तपाणं तुं, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.४३।। (ति.) अतः-[तं...इत्यादि] स्पष्टः ।
(स.) तं'इति एवं दीयमानां स्त्रियं प्रति प्रत्याचक्षीत साधुः, किं वदेदित्याह-तद् भक्तपानं तु पूर्वोक्तं संयतानामकल्पिकमकल्पनीयं, यतः कारणादेवं ततो ददती स्त्रियं प्रति प्रत्याचक्षीत वदेत्, न मम कल्पते तादृशमिति. ।।५.४३।। ।
(सु.) 'तं भवे भत्तपाणं'इति, तद् भवेद् भक्तपानं तु अनन्तरोदितं संयतानामकल्पिकं । यतश्चैवमतो ददतीं प्रत्याचक्षीत-न मम कल्पते तादृशमिति ।।५.४३।।
जं भवे भत्तपाणं तु, कप्पाकप्पंमि संकियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.४४।।
(ति.) किं बहुना ? - इत्युपदेशसर्वस्वमाह-स्पष्टः । नवरम् । किमिदमुद्गमादिदोषयुक्तं न वेत्याशङ्काकारि ||
(स.) किं बहुना ? - उपदेशस्य सर्वरहस्यमाह-जं'इति यद् भक्तपानं तु कल्पाकल्पयोः कल्पनीया-कल्पनीययोर्विषये शङ्कितं भवेत्-'न वयं विद्मः, किमिदमुद्गमादिदोषयुक्तं किंवा न'इति शङ्कास्थानं स्यात्. तदित्थं भूतं कल्पनीयनिश्चयेऽजाते सत्यशनादि दीयमानां स्त्रियं प्रति साधुरिति प्रत्याचक्षीतेति वदेत्, किं ? न मम कल्पते तादृशमिति. ।।५.४४।। __ (सु.) किं च बहुनोक्तेन, उपदेशसर्वस्वमाह-'जं भवे इति यद् भवेद् भक्तपानं तु कल्पाकल्पयोः-कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः । किम् ?, शङ्कितं-न विद्मः किमिदमुद्गमादि-दोषयुक्तं किं वा नेत्येवमाऽऽशङ्कास्पदीभूतं, तदित्थम्भूतमसति कल्पनीयनिश्चये ददतीं प्रत्याचक्षीत-न मम कल्पते तादृशमिति ।।५.४४ ।।
दगवारएण पिहियं, निस्साए पीढएण वा | लोढेण वा वि लेवेण, सिलेसेण व केणइ ।।५.१.४५।। (ति.) किञ्च–देयं वस्तु भाजनस्थं दकवारकेण-उदककुम्भेन । पिहितम् स्थगितम |