________________
पञ्चदशं गोशालकाख्यं शतकम्
63
पुष्कलसंवर्तकादीनि तु त्रीणि बाह्यानि प्रकृतानुपयोगेऽपि चरमसामान्याज्जनचित्तरञ्जनाय चरमाण्युक्तानि, जनेन हि तेषां सातिशयत्वाच्चरमता श्रद्धीयते, ततस्तैः सहोक्तानामाम्रकूणकपानकादीनामपि सा सुश्रद्धेया भवत्विति बुद्धयेति, 'पाणगाई' ति जलविशेषा व्रतियोग्याः, 'अपाणयाई' ति पानकसदृशानि शीतलत्वेन दाहोपशमहेतवः, 'गोपुट्ठए' त्ति गोपृष्ठाद्यत्पतितं, 5 ' हत्थमद्दियं' ति हस्तेन मर्दितं-मृदितं मलितमित्यर्थः, यथैतदेवातन्यनिकोदकं, 'थालपाणए' त्ति स्थालं-त्र (? पात्रं ?) तत्पानकमिव दाहोपशमहेतुत्वात् स्थालपानकम्, उपलक्षणत्वादस्य भाजनान्तरग्रहोऽपि दृश्यः, एवमन्यान्यपि नवरं, त्वक्-छल्ली, सीम्बली-कलायादिफलिका, 'सुद्धपाणए 'त्ति देवहस्तस्पर्श इति, 'दाथालय ' त्ति उदकाई स्थालकं, 'दावारगं' ति उदकवारकं, 'दाकुंभग' 10 त्ति इह कुम्भो महान्, 'दाकलसं' ति कलशस्तु लघुतरः, 'जहा पओगपए' । त्ति प्रज्ञापनायां षोडशपदे, तत्र चेदमेवमभिधीयते-'भव्वं वा फणसं वा दालिमं वा' इत्यादि, 'तरुणगं' ति अभिनवम्, 'आमगं' ति अपक्वम् , 'आसगंसि'त्ति मुखे, आवीलेइ'त्ति 'आपीडयेत्' ईषत्प्रपीडयेत्, प्रकर्षत इह यदिति शेषः, 'कल' त्ति कलायो-धान्यविशेषः, 'सिंबलि' त्ति वृक्षविशेषः, - 'पुढविसंथारोवगए' इत्यत्र वर्त्तत इति शेषो दृश्यः, 'जे णं ते देवे साइज्जइ 'त्ति यस्तौ देवौ ' स्वदते ' अनुमन्यते, 'संसि' त्ति स्वके स्वकीये -इत्यर्थः । 'हल्ल' त्ति गोवालिकातृणसमानाकारः कीटकविशेषः, 'जाव सम्वन्नू • इति इह यावत्करणादिदं दृश्यं-'जिणे अरहा केवली' ति, वागरणं 'ति' प्रश्नः, 'वागरित्तए' त्ति प्रष्टुं, 'विलिए ' त्ति ‘व्यलीकितः' सातव्यलीकः, , 'विड्डे ' त्ति बीडा अस्यास्तीति वीड:-लज्जाप्रकर्षवानित्यर्थः, भूमार्थेऽस्त्यर्थप्रत्ययोपादानात्। 'एगंतमंते' त्ति विजने भूविभागे यावदयंपुलो गोशालकान्तिके नागच्छतीत्यर्थः, 'संगारं' ति — सङ्केतम् ', अयंपुलो भवत्समीपे आगमिष्यति ततो भवानाम्रकूणिकं परित्यजतु संवृतश्च भवत्वेवंरूपमिति । 'तं नो खलु