________________
64
10
श्रीमद्भगवतीसूत्रम् एस अंबकूणए' त्ति तदिदं किलाम्रास्थिकं न भवति, यद्वतिनामकल्प्यं यद् भवती आम्रास्थिकतया विकल्पितं, किन्तु इदं यद्भवता दृष्टं तदासत्वक, एतदेवाह'अंबचोयए णं एसे' त्ति, इयं च निर्वाणगमनकाले आश्रयणीयैव, त्वक्पानकत्वादस्या इति । तथा हल्लासंस्थानं यत्पृष्टमार्सात् तद्दर्शयन्नाह-'वंसी
मूलसंठिय ' त्ति, इदं च वंशीमूलसंस्थितत्वं तृणगोवालिकायाः लोकप्रतीत"मेवेति, एतावत्युक्त मदिरामदविह्वलितमनोवृत्तिरसावकस्मादाह-वणिं वाएहि रे वीरगा २' एतदेव द्विरावर्त्तयति, एतच्चोन्मादवचनं तस्योपासकस्य शृण्वतोऽपि न व्यलीककारणं जातं, यो हि सिद्धिं गच्छति स चरमं गेयादि करोतीत्यादिवचनैर्विमोहितमतित्वादिति । 'हंसलक्खणं' ति हंसस्वरूपं शुक्ल. मित्यर्थः, हंसचिह्न चेति, 'इड्डीसक्कारसमुदएणं' ऋद्धया ये सत्कारा:पूजाविशेषास्तेषां यः समुदयः स तथा तेन, अथवा ऋद्धिसत्कारसमुदयरित्यर्थः, समुदयश्च जनानां सङ्घः, 'समणघायए' त्ति श्रमणयोस्तेजोलेश्याक्षेपलक्षणघातदानात् घातदो घातको वा, अत एव श्रमणमारक इति, 'दाहवक्कंतीए' त्ति दाहोत्पत्त्या, 'सुंबेणं' ति वल्करज्ज्वा , ' उट्ठभह ' त्ति अवष्ठीव्यतनिष्ठीव्यत, क्वचित् 'उच्छुभह' त्ति दृश्यते तत्र चापशब्दं किञ्चित्क्षिपतेत्यर्थः, 'आकट्टविका ति आकर्षवैकर्षिकाम् , 'पूयासक्कारथिरीकरणट्टयाए ' चि पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेतोः यदि तु ते गोशालकशरीरस्य विशिष्टपूजां न कुर्वन्ति तदा लोको जानाति नायं जिनो बभूव, न चैते जिनशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्यातामिति तयोः स्थिरकिरणार्थम् ', 'अव. गुणंति' त्ति अपावृण्वन्ति । (सू. ५५१-५५६) 'सू. ५५७-५९ सिंहानीतोषधादाहशमः । सर्वानुभूतिसुनक्षत्र
साधुगतिः । गोशालकगतिर्विमलवाहनभवश्च । 'साण( ल ) कोट्टए नाम चेइए होत्था वण्णओ' त्ति तवर्णको