________________
तन्दुलवैचारिक प्रकोर्णकम्
[ ९३
9
त्यर्थः किंभूताः केशाः १ - असंवलिताः न खितानखिटिकाकारा जाताः, अत एव ऋजुकाः - सरलाः एषां वालानां घनमेकीभूतानां यादृशं प्रमाणं भवति तादृशं नालिका च्छिद्रं ज्ञातव्यमिति ॥ ६३ ॥
'अहवा' अथवा पुच्छ्वालौ द्वौ, कस्याः ? - 'गयकरेए' त्ति गजकल भिकायाः किंभूताया ? - द्विवर्षजातायाः, किंभूतौ वालौ ? - अभग्नौ, अनेन वालद्वयमानेन नालिकाच्छिद्रं ज्ञातव्यमिति ॥ ६४ ॥
'अहवा सु०' अथवा चतुर्णा स्वर्णमाषाणां सूचिर्भवति, किंभूता सूचिः ! -सु-अतिशयेन वर्त्तिता - वर्त्त लीकृता सुबर्त्तिता घना - निविडा चतुरङ्गुलप्रमाणा, तत्र माषमानं पश्चगुञ्जाप्रमाणमित्युक्तप्रमाणेन नालिकाच्छिद्रं ज्ञातव्यमिति ॥ ६५||
इत्युक्तं घटिकाच्छिद्रप्रमाणम् । अथ घटयां जलप्रमाणमाह - 'उदगस्स ० ' नालिकायां-घटिकायामुदकस्य - जलस्य प्रमाणं द्वावादकौ भवतः, उदकं यादृशं भणितव्यं भवति तत्तादृशं पुनर्वक्ष्ये इति ॥ ६६ ॥
'जारिसगं' तं उदकं जलं खलु निश्चये ज्ञातव्यं कर्त्तव्यं चेति, कीदृशं कर्त्तव्यमित्याह - ' दूस पट्ट ० ' दूष्यपरिपूतं, वस्त्रगलितमित्यर्थः, मेघोदकं प्रसन्नमिति निर्मलं, वा अथवा 'सारय 'ति शरत्कालोद्भवं आश्विन कार्त्तिकोद्भवं यद् गिरिनद्या उदकं ज्ञातव्यं, तच्च स्वभावेन निर्मलं भवतीति ॥६७॥