SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ९२ ] तन्दुलवैचारिक प्रकीर्णकम् 'हड० ' हृष्टस्य - समर्थस्य 'अणवगल्लस्से'ति रोगर - हितस्य 'free fageसे 'ति क्लेशरहितस्य जन्तो:- जीवस्यैको निःश्वासोच्छ्वासः एषः प्राण इत्युच्यते इति ॥ ५८ ॥ 'सन्त०' सप्तभिः प्राणैः स स्तोकः कथ्यते, सप्तभिः स्तोकैः स लवः कथ्यते, लवानां सप्तसप्तत्या एष मुहूर्त्तो व्याख्यातः ।। ५६ ।। 'एग मे० ' एकैकस्य हे भदन्त ! मुहूर्त्तस्य कियन्त उच्छ्वासा व्याख्याताः १, हे गौतम ! ' तिन्नि' गाहा, त्रिभिः सहस्रः सप्तभिः शतैः त्रिसप्तत्योच्छ्वासैः ३७७३ एष मुहूर्त्तो भणितः सर्वैरनन्तज्ञानिभिः ॥ ६० ॥ 'दो नालि० ' द्वाभ्यां नालिकाभ्यां - घटिकाभ्यां मुहूर्त्तः स्यात्, षष्ट्या नालिकाभिरहोरात्रः, पञ्चदशभिरहोरात्रः पक्षः, द्वाभ्यां पक्षाभ्यां मास इति भावार्थः ॥ ६१ ॥ अथ उक्तनालिकायाः - स्वरूपमाह - दाडिमे 'ति दाडिमपुष्पाकारा लोहमयी नालिका - घटिका कर्त्तव्या भवति, तस्या नालिकायास्तले - अधोभागे छिद्रं - रन्धं कृतं भवति, छिद्रप्रमाणं पुनः वक्ष्ये शिष्यज्ञानायेति ॥ ६२ ॥ 9 'छन्न' त्ति षण्णवतिपुच्छवाला - लाङ्गुलकेशाः कस्याः'गोतिहाणीए 'त्ति गोवच्छिकायाः, किंभूतायाः - 'तिवासजायाए 'ति त्रिवर्षजातायाः, जन्मतो वर्षत्रयाणि जातानी
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy