SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७८ ] तन्दुलगैचारिकप्रकीर्णकम् सम्पूर्णमधस्तु न तथा तत् न्यग्रोधपरिमण्डलमुपरिविस्तारबहुलमिति भावः २ आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तते इति सादि उत्सेधबहुलमिति भावः, इदमुक्तं भवति-यत् संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि हीनं तत् सादीति ३ यत्र शिरोग्रीवाहस्तपादादिकं यथोक्तप्रमाणलक्षणोपेतं न पृष्ठथु दरादि तत् कुब्जं ४ यत्र पुनरूरउदरपृष्ठयादिप्रमाणलक्षणोपेतं शिरोग्रीवाहस्तपादादिकं च हीनं तद् वामनं ५ यत्र तु सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुंडं ६, सम्प्रति खलु-निश्चये हे आयुष्मन् ! मनुजाना हुण्डं संस्थानं वर्तते, अथोपदेशं ददातीत्याह-'संघयण' संहननं संस्थानं शरीरादेरुच्चत्वम्-उच्छयमानं आयुश्च मनुजानां चकारादन्येषां अपि अनुसमय-समयं समयं प्रति परिहीयते अवसर्पिणीकालदोषेणेति ॥ ५० ॥ ___ 'कोहमा०' क्रोधमानमायालोभाश्च उस्सन्नं-प्रवाहेण वर्द्धन्ते-पूर्वमनुष्यापेक्षया विशेषतो वर्धन्ते, मनुष्याणां कूटतुलानि-कूटतोलनाद्यपकरणानि कूटमानानि-कूटकुडवप्रस्थादिमानानि च वद्धन्ते तेन कूटतुलादिनाऽनुमानेन-अनुसारेण 'सव्वं'ति क्रयाणकवाणिज्यादिकं कूटं वर्धते इति ॥५१॥ 'विस' विषमाः अर्पणायान्याः ग्रहणायान्याश्च अद्य दुष्षमाकाले तुला तथा जनपदेषु-मगधादिदेशेषु मानानि
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy