SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ तन्दुलचारिक प्रकीर्णकम् [ ७७ त्रयभेदि कीलिकाकारं वज्राख्यमस्थियन्त्रं तद्वज्रर्षभनाराचं १ कीलिकारहितं ऋषभनाराचं २ पट्टरहितं केवल मर्कटबन्धं नाराचं ३ यत्रैकपार्श्वे मर्कटबन्धोऽपरपार्श्वे च कीलिका तदधनाराचं ४ यत्रास्थीनि च कीलिकामात्रबद्धानि तत्कीलिकाख्यं ५ यत्र चास्थीनि परस्परपर्यन्त संस्पर्शरूपसेवामात्रेण व्याप्तानि नित्यं स्नेहाभ्यङ्गादिपरिशीलनमपेक्षन्ते तत् सेवया ऋतं व्याप्तं - सेवा ६, सम्प्रति- इदानीं पञ्चमारके खलुनिश्वये हे आयुष्मन् ! मनुजाना सेवा संहननं वर्त्तते, तत्र श्रीवीरात्सप्तत्यधिकशत १७० वर्षे श्रीस्थूलभद्रे स्वर्ग गते चरमाणि चत्वारि पूर्वाणि आद्यसंस्थानमाद्यसंहननं महाप्राणध्यानं च गतं, तथा श्रीवीरात् ५८४ वर्षे श्रीवत्रे दशमं पूर्वं संहननचतुष्कं च गतमिति । तथा आसन् हे आयुष्मन् ! पूर्व मनुजानां षड्विधानि 'संठाणे 'ति सन्तिष्ठन्ति प्राणिन एभिराकारविशेषैरिति संस्थानानि, तद्यथा - 'समचतुरंसे 'ति समं - नाभेरुपर्यधश्च सकल पुरुषलक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरस्र च - अन्यूनाधिकाश्चतस्रोऽप्यस्त्रयो यस्य तत्समचतुरत्र, अत्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरमासनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धवामजानुनोरन्तरं वामस्कन्धदक्षिण जानुनोश्चान्तरमिति संस्थानं - आकारः समचतुरस्रसंस्थानं १ न्यग्रोधवत् परिमण्डलं यस्य यथा न्यग्रोध उपरि सम्पूर्णप्रमाणोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy