________________
६६ ]
तन्दुलर्वचारिक प्रकीर्णकम्
:--
भ्रू राजिः सुसंस्थिते संगते आयते -- दीर्घे सुजाते -- सुनिष्पन्ने येषां ते तथा, आलीनौ नतु टप्परौ प्रमाणयुक्तौ उपपन्नप्रमाणौ श्रवण-कर्णो येषां ते तथा अत एव सुश्रवणाः सुष्ठु श्रवणं-- शब्दोपलंभो येषां ते तथा पीनौ-मांसलौ कपोललक्षण देशभागौ वदनस्यावयवो येषां ते तथा, अचिरोद्गतः समग्रः-- सम्पूर्णः सुस्निग्धः चन्द्रः-- शशी तस्यार्द्धवत् संस्थितं -- संस्थानं यस्य ललाटस्य तत्तथा तदेवंविधं 'निडाल'त्ति ललाटं-भालं येषां ते अचिरोद्गतसमग्र सुस्निग्धचन्द्रार्धं संस्थितललाटा:, उडुपतिरिव -- चन्द्र इव प्रतिपूर्ण सौम्यं वदनं येषां ते उडुपतिप्रति पूर्ण सौम्यवदनाः, छत्राकारोत्तमाङ्गदेशा इति कण्ठ्य ं, घनो--लोहमुद्गरस्तद्वन्निचितं - निविडं यद्वा घनं - अतिशयेन निचितं सुबद्धं स्नायुभिः लक्षणोन्नतं - महालक्षणं कूटागारनिर्भ - सशिखरभवनतुल्यं निरुपमपिण्डिकेच वतु' लत्वेन पिण्डि - कायमानं अग्रशिरः-- शिरोऽग्रं येषां ते घननिचितसुबद्धलक्षणोन्नतकूटागारनिभनिरुपमपिण्डिकाग्र शिरसः, हुतवहेन - अग्निना निर्मात धौतं तप्तं च यत्तपनीयं - रक्तवर्ण सुवर्ण तद्वत् ।
'के संत 'त्ति मध्यकेशाः केशभूमिः - मस्तकत्वग् येषां ते हुतवहनिर्मातधौततप्ततपनीय केशान्तकेशभूमयः, शाल्मलीवृक्षविशेषः स च प्रतीत एव तस्य बोंडं -- फलं तद्वत् छोटिता अपि घना निचिता -- अतिशयेन निचिताः शाल्मलीबोण्ड - घननिचितच्छोटिताः, ते हि युगलधार्मिकाः केशपाशं न