SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिक प्रकीर्णकम् [ ६७ कुर्वन्ति परिज्ञानाभावात् केवलं छोटिता अपि तथा स्वभावतया शाल्मलीबोण्डाकारवत् घननिचिता अवतिष्ठन्ते तत एतद्विशेषणोपादानं, तथा मृदवः - अकर्कशाः विशदा-निर्मलाः सूक्ष्माः-श्लक्ष्णाः लक्षणा- लक्षणवन्तः प्रशस्ताः - प्रशंसाऽऽस्पदीभूताः सुगन्धयः- परमगन्धकलिताः अत एव सुन्दराः तथा भुजमोचको - रत्नविशेषः भृङ्गः - चतुरिन्द्रियपचिविशेषः नीलोमरकतमणिः कज्जलं प्रतीतं प्रहृष्टः - प्रमुदितो यो भ्रमरगणः प्रहृष्टभ्रमरगणः प्रहृष्टो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानों चातिकृष्ण इति प्रहृष्टग्रहणं तद्वत् स्निग्धाः -कालकान्तयः भुजमोचकभृङ्गनीलकज्जल प्रहृष्टभ्रमरगण स्निग्धाः तथा निकुरम्चा:- निकुरम्बीभूताः सन्तः निचिताः अविकीर्णाः कुञ्चिताः - ईषत्कुटिलाः प्रदक्षिणावर्त्ताश्च मूर्धनि शिरोजाःकेशा येषां ते शाल्मलीबोण्डघन निचितच्छोटितमृदुविशदप्रशस्तसूक्ष्मलक्षण सुगन्धिसुन्दर भुजमोचक भृङ्गनीलकज्जलग्रहष्टभ्रमरगणस्निग्धनिकुरम्बनिचितप्रदक्षिणावर्त्तमूर्धशिरोजसः, लक्षणानि - स्वस्तिकादीनि व्यञ्जनानि-मपतिलकादीनि गुणाः क्षान्त्यादयस्तैरुपपेता - युक्ताः लक्षणव्यञ्जनगुणोपपेताः, तथा मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि - जन्मदोषरहितानि सर्वाण्यङ्गानि - अवयवाः यत्र तदेवंविधं सुन्दरं अङ्ग - शरीरं येषां ते तथा, तत्र मानं - जलद्रोणप्रमाणता, सा चैवंजलभृतकुम्भे प्रमातव्ये पुरुषे उपवेशिते यज्जलं - तोयं निर्ग ·
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy