SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिक प्रकीर्णकम् [ ६५ परस्परं अनुपलक्ष्यमाणदन्तविभागत्वात् अनेके दन्ताः येषां ते अनेकदन्ता, एवं नामाविरलदन्ता यथा अनेकदन्ता अपि सन्तः एकाकारदन्तपङ्क्तय इव लक्ष्यते इति भावः, हुतवहेन - अग्निना निमतं - निर्दग्धं धौतं - प्रक्षालितमलं तप्तं च- उष्णं यत् तपनीयं - सुवर्णविशेषः तद्वत् रक्ततलं- लोहितरूपं तालु च काकुदं जिह्वा च - रसना येषां ते तथा, 'सर'त्ति अत्र योज्यं सारसवत् - पक्षिविशेषवत् मधुरः स्वरः - शब्दो येषां ते तथा, नवमेघवत् गम्भीरः स्वरो येषां ते तथा, क्रौंचस्य - पचिविशेषस्येव निर्घोषो येषां ते तथा, दुन्दुभिवत् - भेरीवत् स्वरो येषां ते तथा, तत्र स्वरः - शब्दः षड्जः १ ऋषभः २ गान्धार ३ मध्यम ४ पञ्चम ५ धैवत ६ निषाद ७ रूपो वा एषां विस्तरस्वरूपं स्थानाङ्गानुयोगद्वारतोऽवगन्तव्यमिति, घण्टानुप्रवृत्तरणितमिव यः शब्दः स घोष उच्यते, नितरां घोषः निर्घोष इति, गरुडस्येव - सुपर्णस्येव आयता - दीर्घा ऋज्वी- सरला तुङ्गा - उन्नता नासा - घोणा येषां ते तथा, अवदालितं - रविकिरणैः विकाशितं यत् पुण्डरीकं - सितपद्म तद्वद् वदनं-मुखं येषां ते तथा । 'कोकासिय'त्ति विकसिते प्रायः प्रमुदितत्वात्तेषां धवले - सिते पुण्डरीके 'पत्रले' पक्ष्मवती अक्षिणी -- लोचने येषां ते तथा, आनामितं - ईषन्नामितं यच्चापं --धनुः तद्वद् रुचिरे -- शोभने कृष्णचिकुररा। जिसुसंस्थिते कुत्रापि कृष्णा
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy