SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मिलितं च तदुभयसंसृष्टं, कलुष-मलिनं 'किब्बिसं'ति कबुरमिति ॥ सूत्र-१॥ ततः केन क्रमेण शरीरं निष्पाद्यते इत्याह-'सत्ताह'मित्यादि. यावद् भवेत्तिपा, सप्ताहोरात्राणि यावत् शुक्रशोणितसमुदायमात्रं कललं भवति १ ततः सप्ताहोरात्राणि अर्बुदो भवति, ते एव शुक्रशोणिते किश्चित् स्त्यानीभूतत्वं प्रतिपद्यते इति २ ततोऽपि चाबुदात् पेसी-मांसखण्डरूपा भवति ३ ततश्चानन्तरं सा धनं-समचतुरस्र मांसखण्डं भवति ॥ १७ ॥ ___'तो पढमे.' ततः-इह च तच्छुक्रशोणितमुत्तरोत्तरपरिणाममासादयत् प्रथमे मासे कर्जेनं पलं जायते, पञ्चगुञ्जाभिर्मापः षोडशभिर्मापैः कर्षः चतुभिः कः पलमिति वचनात् त्रयः कर्षाः स्युरिति भावः १ द्वितीये तु मासे मांसपेसी घना-घनस्वरूपा भवति, समचतुरस्र मांसखण्डं जायत इत्यर्थः २ तृतीये मासे तु मातुदोंहदं जनयतीत्यर्थः ३ चतुर्थ मासे मातुरङ्गानि प्रीणयति-पुष्टानि करोतीत्यर्थः ४ पञ्चमे मासे पाणिद्वयपादद्वयमस्तकरूपाः पञ्च पिण्डिकाः-पञ्चाङ्कुरान् निवर्त्तयति निष्पादयतीत्यर्थः ५ षष्ठे मासे पीयते जलमनेनेति पित्तं पित्तं च शोणितं च पित्तशोणितं तत् उपचिनोति-पुष्टं करोतीत्यर्थः ६ सप्तमे मासे सप्त शिगशतानि ७०० पञ्च पेशीशतानि ५०० नव धमन्यो-नव नाडयः 8
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy