________________
१८
-
' दाहिणे 'ति पुरुषस्य दक्षिणकुक्षिः स्यात्, दक्षिणकुक्षौ वसन् जीवः पुरुषः स्यादिति भावः १ स्त्रिया वामकुक्षि: स्यात्, वामकुक्षौ वसन् जीवः स्त्री भवतीति भावः २ नपुसकः उभयान्तरं स्यात्, कुक्षिमध्यभागे वसन् जीवो नपुंसको जायते इति भावः ३, स्त्रीपुरुषनपु' सकलक्षणानि यथा - "योनिमृदुत्वमस्थैर्य, मुग्धता चलता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते ॥ १ ॥ मेहनं खरता दादर्थ, शौण्डीर्यं श्मश्रु धृष्टता । स्त्रीका मितेति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ २ ॥ स्तनादिश्मश्रु केशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ||३||" इति ॥
अथ तिरथां गर्भे भवस्थितिमाह - 'तिरिए'त्ति तिरवां गर्भस्थितिरुत्कृष्टतः अष्टौ वर्षाणि ततः परं विपत्तिः प्रसवो वेति, जघन्यतः अन्तर्मुहूर्त्तमाना भवस्थितिरिति ॥ १६ ॥ अथ जीवो गर्भे उत्पद्यमानः किमाहारमाहारयति ततश्च किंस्वरूपो भवतीत्याह
इमो खलु जीवो अम्मापि संयोगे माउउयं पिउसुक्कं तं तदुभयसंसद्वं कलुस किब्बिसं तप्पटमयाए आहारं आहारिता गन्भत्ताए वक्कमइ ॥ सू. १ ॥
सत्ताहं कललं होई, सत्ताहं होइ अब्बुयं ।