________________
१७
मणपरियारणं करेंति सेसं निरवसेसं तं चेव जाव भुजो २ परिणमंति' त्ति ॥
अथ कियन्तं कालं भवस्थित्या जीवो गर्भे वसतीत्याह" बारस० " गर्भस्य स्थितिः द्वादशवर्षप्रमाणा भवति, एतदुक्तं भवति कोऽपि पापकारी वातपित्तादिदूषिते देवादिस्तम्भिते वा गर्भे द्वादश संवत्सराणि निरंतरं तिष्ठति उत्कृष्टतः, जघन्यतस्त्वन्तमुहूर्तमेव तिष्ठति, भवस्थित्या गर्भाऽधिकारात 'उद्गगभे णं भंते! कालओ केवचिरं होइ ?, गोयमा ! जहणणेणं एक्कं समयं उक्कोसेणं छ मासा" उदकगर्भः - कालान्तरे वृष्टिहेतुपुद्गल परिणामः तस्य समयानन्तरं षण्मासानन्तरं च वर्षणात्, अयं च मार्गशीर्षादिषु वैशाखान्तेषु सन्ध्यारागादिलिङ्गो भवतीति, तुशदात् मनुष्यतिरवां काय स्थितिः चतुर्विंशतिवर्षप्रमाणा अवगन्तव्या, यथा कोऽपि स्वीकार्य द्वादश वर्षाणि जीवित्त्वा तदन्ते च मृत्वा तथाविधकर्मवशात् तत्रैव गर्भस्थिते कलेवरे समुत्पद्य पुनः द्वादश वर्षाणि जीवतीत्येवं चतुर्विंशतिर्वर्षा - युत्कर्षतो गर्भे जन्तुरवतिष्ठते, केचिदाहुः- द्वादश वर्षाणि स्थित्वा पुनः तत्रैवान्यजीवस्तच्छरीरे उत्पद्यते तावत् स्थितिरिति ।। १५ ।। अथ कुक्षौ पुरुषादयः कुत्र परिवसन्तीत्याहदाहिणकुच्छी पुरिसस्स होइ वामा उ इत्थीयाए य । उभयंतरं नपुं से तिरिए अट्ठेव वरिसाई ॥ १६ ॥