________________
तन्दुलवैचारिकप्रकोणकम्
शतपृथक्त्वस्यापि बीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यमानस्तेषां सर्वेषां बीजस्वामिनामुत्कर्षतः पुत्रो भवति, मत्स्यादीनामेकसंयोगेऽपि शतसहसपृथक्त्वं गर्भ उत्पद्यते निष्पद्यते चेत्येक स्मिन्नपि गर्भ लक्षपृथक्त्वं पुत्राणां स्यादिति । ननु देवानां शुक्रपुद्गलाः किं सन्ति उत न ?, उच्यते, सन्त्येव, परं ते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतव इति, यदुक्तं श्रीप्रज्ञापनायां
"अस्थि णं भंते ! तेसिं देवाणं सुक्कपुरगला ?" हंता अस्थि, "ते णं भंते ! तेसिं अच्छराणं कीसत्ताए भुजो २ परिणमंति?" गोयमा ! सोइंदियताए चक्खिदियत्ताए घाणिदियत्ताए रसणिंदियत्ताए फासिंदियत्ताए इत्ताए कंतत्ताए मणुन्नत्ताए मणामत्ताए सुभगत्ताए सोहग्गख्वजोव्वणगुणलावनत्ताए एयासिं भुजो २ परिणमंति जाव तत्थ णं जे ते मणपरियारगा देवा तेसिं इच्छामणे समुप्पजह इच्छामो णं अच्छराहिं सद्धि मणपरियारणं करेत्तए, तओ णं तेहिं देवेहिं मणसोकए समाणे खिप्पामेव ताओ अच्छराओ तत्थगयाओ चेव समाणीओ अणुत्तराई उच्चावयाइं मणाई पहारेमाणीओ २ चिट्ठति, तओ णं ते देवा ताहिं अच्छराहिं सद्धि