SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिक प्रकीर्णकम् [ १४६ , 9 अयमाशयः-यथा खड्गः पण्डितेतरान् नरान् निर्दयतया छेदयति तथाsनार्या नार्योऽपि नरानिह परत्र दारुणदुःखोत्पादनेन छेदयन्ति यथा च कज्जलं स्वभावेन कृष्णं अस्य श्वेतपत्रादिसङ्गमे सति तस्य कृष्णत्वं जनयति तथोन्मत्तनारी स्वभावेन कृष्णा दुष्टान्तःकरणत्वात् तत्सङ्गमे उत्तमकुलोत्पन्नानामुतमानामपि कृष्णत्वमुत्पादयति यशोधनक्षयराजविटम्बनादिहेतुत्वात् पुनः किंभूतानां ? - कान्तारकपाटचारकसमानां - अरण्यकपाटकारागृहतुल्यानाम्, अयमाशयः - यथा गहनवनं व्याघ्राद्याकुलं जीवानां भयोत्पादकं भवति तथा नराणां नार्योऽपि भयं जनयन्ति, धनजीवितादिविनाशहेतुत्वेनेति, यथा प्रतोत्यां कपाटे दत्ते केनापि गन्तुं न शक्यते तथा हृदयप्रतोल्यां नारीरूपे कपाटे दत्ते सति केनापि कुत्रापि धर्मनादौ गन्तु ं न शक्यते, यथा च जीवानां कारागृहं दुःखोत्पादकं भवति तथा नराणां नार्योऽपीति, पुन किंभूतानां :-- 'घोरनि०' घोरो - रौद्रः प्राणनाशहेतुत्वात् निकुरम्बं - घनमगावमित्यर्थः यत्कमिति जलं तस्मादिव दरो--भयं यस्मात् भावात् साङ्केतपुराधिपदेवरतिराजस्येव स निकुरम्बकन्दरः कमित्यव्ययशब्दः उदकवाचकः, चलन् --पुरुषं पुरुषं प्रति भ्रमन् बीभत्सो -- भयङ्करः, इह परत्र महाभयोत्पादकत्वात्, एवंविधो भावः -- आन्तरमायावक्रस्वभावो यासां ताः घोरनिकुरम्बकन्दरचलदूबीभत्सभावास्तासां घोरभावानाम् ॥ १२२ ॥ 10 B
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy