SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५० ] तन्दुलगैचारिकप्रकोर्णकम् 'दोससय०' दोषशतगर्गरिकाणां दोषाः--परस्परकलहमत्सरगालिप्रदानमर्मोद्घाटनकलङ्कप्रदानाजल्प्यजल्पनशापप्रदानस्वपरमाणघातचिन्तनादयस्तेषां शतानि तेषां गगरिकाः भाजनविशेषास्तासां दोषशतगर्गरिकाणां, 'अजस.' यशसः शतानि यशःशतानि न यशःशतान्ययशःशतानि तेषु विसपत--विस्तारं गच्छत् हृदयं--मानसं यासां ता अयशःशतविसर्पहृदयास्तासां तथा 'कइयवत्ति कैतवानि कपटानि नेपथ्यभाषामार्गगृहपरावादीनि ‘पन्नत्ती'ति प्रज्ञाप्यन्तेप्ररूप्यन्ते याभिस्ताः कैतवप्रज्ञप्तयः, यद्वा कैतवानां दम्भानां प्रकृष्टाः ज्ञप्तयो--ज्ञानानि कमलश्रेष्टिसुतापद्मिनीवत् यासु ताः कैतवप्रज्ञप्तयः, यद्वा कैतवेषु प्रज्ञाया-बुद्धराप्तिः--आदानं यासां ताः कैतवप्रज्ञाप्तयस्तासां कैतवप्रज्ञप्तीनां २ कैतवप्रज्ञातीनां वा, तथा 'ताणं'ति तासां नारीणामज्ञातशीलानांपण्डितैरप्यज्ञातस्वभावानां, यदुक्तं'देवाण दाणवाणं मंतं मंतंति मंतनिउणा जे। इत्थीचरियंमि पुणो ताणवि मंता कहं नहा? ॥१॥ जालंधरेहिं भूमीहरेहिं विविहाहिं अंगरक्खेहिं । निवरक्खियावि लोए रमणी दीसइ पभहमजाया॥२॥ मच्छपयं जलमज्झे आगासे पंखियाण पयपंती। महिलाण हिययमग्गो तिन्निवि लोए न दीसंति॥३॥" इति, यद्वा न ज्ञातं--नाङ्गीकृतं शीलं-ब्रह्मस्वरूप
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy