________________
११० ] तन्दुलवैचारिकप्रकोर्णकम् ष्ठयोरगुलयोः नखानां महाराजानां ( करजानां ) ये सन्धयस्तेषां सङ्घातेन-समूहेन सन्धितमिदं वपुः 'बहु' बहुरसिकागारं 'नालखं०' नालेन स्कन्धशिराभिः-अंसधमनीभिः 'अणेगण्हार'त्ति अनेकस्नायुभिः-अस्थिबन्धनशिराभिः बहुधमनिभिः-अनेकशिराभिः सन्धिभिः-अस्थिमेलापकस्थानश्च 'नई'ति नियन्त्रितं प्रकट-सर्वजनदृश्यमानमुदरकपालं-जठरकडहल्लकं यत्र तत्प्रकटोदरकपालं, कक्षैवदोमू लमेव निष्कुटं-कोटरं जीर्णशुष्कवृक्षवद् यत्र तत् कक्षनिष्कुटं कक्षायां गच्छन्तीति कक्षागाः अधिकारात्तद्गतकुत्सितवालास्तैः कलितं-सदा सहितं कक्षागकलितं यद्वा कक्षायां भवाः काक्षिका:-तद्गतकेशलतास्ताभिः कलितं, 'दुरंतंति दुष्टः अन्तो-विनाशः प्रान्तो वा यस्य तद्दुरन्तंदुष्पूर, अस्थिधमन्योः सन्तानेन-परम्परया 'संत'ति व्याप्तं यत्तदस्थिधमनिसन्तानसन्ततं, सर्वतः-सर्वप्रकारैः समन्ततः-सर्वत्र रोमकूपै-रोमरन्धैः परिस्रवत्-गलगलत् सर्वत्र सच्छिद्रघटवत् चशब्दादन्यैरपि नासिकादिरन्धैः परिस्रवत् 'सगं'ति स्वयमेवाशुचि-अपवित्रं 'सभावउ'त्ति स्वभावेन परमदुष्टगन्धीति 'कालिजयअंतपित्तजरहिययफोप्फसफेफसपिलिह'त्ति प्लीहा-गुल्म 'उदर'त्ति जलोदरं गुह्यकुणिमं-मांसं नव छिद्राणि यत्र तत् तथा 'थिविथिवंत'त्ति द्रिगद्रिगायमानं 'हियय'त्ति हृदयं यत्र तत् परमयावत् हृदयं