________________
तन्दुलौचारिकप्रकीर्णकम् [१११ नव छिद्राणि तु नयनद्वयकर्णद्वयनासिकाद्वयजिह्वाशिश्नापानलक्षणानि 'दुरहि'त्ति दुर्गन्धानां पित्तसिंभमूत्रलक्षणानामौषधानामायतनं-गृहं सर्वोषधायतनं, रोगादावस्मिन् सवौषधप्रक्षेपात , सर्वत्र-सर्वभागे दुष्टोऽन्तो-विनाशः प्रान्तो वा यस्य तत् सर्वतोदुरन्तं, 'गुह्यो०' गुह्योरुजानुजङ्घापादसङ्घातसन्धितं-उपस्थसक्थिनलकीलनलकिनीक्रमणपरस्परमीलनसमूहसीवितं, अशुचिकुणिमस्य-अपवित्रमांसस्य गन्धो यत्र तदशुचिकुणिमगन्धि 'एवं चि.' एवं-पूर्वोक्तप्रकारेण चिन्त्यमानं बीभत्सदर्शनीयं भयङ्कररूपं 'अधुवं अनिययं असासयं' चेति पदत्रयस्य व्याख्या पूर्ववत् , 'सडण०' शटनपतनविध्वंसनधर्म, तत्र शटनं-कुष्ठादिनाऽङ्गुल्यादेः पतनं बाहादेः खड्गच्छेदादिना विध्वंसनं-सर्वथा क्षयः एते धर्माः-स्वभावा यस्य तत्तथा, 'पच्छा व पुरा व अवस्स चइयव्वं'त्ति पूर्ववत् 'निच्छ०' निश्चयतः सुष्ठु भृशं त्वं 'जाणं'त्ति जानीहि एतन्मनुष्यशरीरं 'आइनिहणं'ति आदिनिधनं सादिसान्तमित्यर्थः, ईदृशं पूर्ववर्णितं वक्ष्यमाणं वा सर्वमनुजाना-समस्तमनुष्याणां देहः-शरीरं एषः पूर्वोक्तः शरीरस्य परमार्थतः-तत्त्वतः स्वभावः ॥ सूत्रं १७॥
अथ विशेषतः शरीरादेरशुभत्वं दर्शयतिसुक्कंमि सोणियंमि य संभूओजणणिकुच्छिमज्झंमि। तं चेव अमिज्झरसं नवमासे घुटियं संतो ॥ ८५॥