SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०६ ] तन्दुलौचारिकप्रकोर्णकम् 'पंच०' पञ्चविंशतिः शिराः पित्तधारिण्यः, दश शिराः शुक्रधारिण्यः, 'सत्त सि०' पुरुषस्योक्तप्रकारेण सप्त शिराशतानि भवन्ति, कथम् ?, शरीरेऊर्ध्वगामिन्यः १६० अधोगामिन्यः १६० तियग्गामिन्यः१६० अधोगामिन्यो गुदप्रविष्टाः १६० श्लेष्मधारिण्यः २५ पित्तधारिण्यः २५ शुक्रधारिण्यः १० एवं सर्वाः ७०० शिराः भवन्ति पुरुषाणां शरीर इति । 'तीसू०' पुरुषोक्ताः यास्तास्त्रिंशदूनाः स्त्रियाः भवन्ति, सप्तत्यधिकानि षट् शतानि भवन्तीत्यर्थः ६७०, 'वीसू०' पुरुषोक्ता यास्ताः विंशत्यूनाः पाण्डकस्याशीत्यधिकानि षट् शतानि भवन्तीत्यर्थः ६८०, ७ ।। अथ शरीरे रुधिरादिमानमाह-'आउसो' हे आयुष्मन् ! अस्य जन्तोः रुधिरस्याढकं भवति, वसाया अर्धाढकं, 'मत्थुलिंगस्से'ति मस्तकभेज्जकस्य फिप्फिसादेर्वा प्रस्थः मूत्रस्याढकं पुरीषस्य प्रस्थः पित्तस्य कुडवः श्लेष्मणः कुडवः शुक्रस्याधकुडवो भवति, एतच्चाढकप्रस्थादिमानं बालकुमारतरुणादीनां 'दो असईओ पसई दो पसईयो य सेइआ होइ चत्तारि सेईया कुलओ चत्तारि कुलओ पत्थो चत्तारि पत्था आढग'मित्यात्मीय २ हस्तेनानेतव्यमिति, 'जं जाहे' यद् रुधिरादिकं यदा दुष्टं भवति तत्तदाऽतिप्रमाणं भवति, अयमाशयःउक्तमानस्य शुक्रशोणितादेहींनाऽऽधिक्यं स्यात्तत्तत्र वातादिदूषितत्वेनावसेयमिति । 'पंच' पञ्चकोष्ठः पुरुषः, पुरुषस्य
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy