SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तन्दुलमैचारिकप्रकीर्णकम् [ १०५ तले उपगताना-प्राप्तानां भवति, यासां निरुपघातेन जवाबलं भवति, तासां चैव 'से' तस्य जीवस्योपघातेन-विकारप्राप्तेन शीर्षवेदना-सर्वमस्तकपीडा अर्धशीर्षवेदना मस्तकशूलं च भवति, 'अच्छिणि त्ति अक्षिणी-लोचने 'अंधिज्जति त्ति अन्धीभवत इत्यर्थः ४ । तथा 'आउसो.' हे आयुष्मन् ! अस्मिन् प्रत्यक्ष शरीरे षष्टयधिकं शतं शिराणां नाभिप्रभवाणां तिर्यग्गामिनीनां हस्ततले उपागतानां भवति, यासां निरुपघातेन-निरुपद्रवेण बाहुबलं भवति, तासां चैव 'से' तस्योपघातेन-उपद्रवेण पाव वेदना पृष्ठिवेदना कुक्षिवेदना कुक्षिशूलं च भवति ५। तथा 'आउ०' हे आयुष्मन् ! अस्य जन्तोः षष्टयधिक शतं शिराणां नाभिप्रभवाणामधोगामिनीनां गुदप्रविष्टानां भवति, यासां निरूपघातेन-उपद्रवाभावेन मूत्रपुरीषवातकर्मप्रस्रवणकर्म विष्ठाकर्म वायुकर्म प्रवर्तते, मूत्रादिकं सुखेन कत्तुं शक्यत इत्यर्थः, तासां चैव गुदप्रविष्टशिराणामुपघातेन मूत्रपुरीषवातनिरोधो भवति, निरोधेनाांसि-गुदाकुराः 'हरस' इति लोकोक्तिः क्षुभ्यन्ति-क्षोभं यान्ति, परमपीडाकरं रुधिरं मुश्चन्तीत्यर्थः, भवभावनोक्तकालर्षिवत् पाण्डुरोगश्च भवति ६ । तथा 'आउसो.' हे आयुष्मन् ! अस्य जन्तोः पञ्चविंशतिः शिराः 'सिंभधारिणी'त्ति श्लेष्मधारिण्यो भवन्ति,
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy