SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ५६ मृच्छकटिके द्यूतकर:-ता अणुसरेम्ह । (क) माथुर:-एव्वं भोदु । (ख) (उभौ देवकुलप्रवेशं निरूपयतः । दृष्ट्वान्योन्यं संज्ञाप्य ।) द्यूतकरः-कधं कट्टमयी पडिमा । (ग) माथुर:-अले, णहु णहु । शैलपडिमा।(इति बहुविधं चालयति । संज्ञाप्य च ।) एव्वं भोदु । एहि । जूदं किलेम्ह । (घ) (इति बहुविधं द्यूतं क्रीडति ।) संवाहक:-(यूतेच्छाविकारसंवरणं बहुविधं कृत्वा स्वगतम् ।) अले, कत्ताशदे णिण्णाणअश्श हलइ हडकं मनुश्शश्श.। ढक्काशद्दे व्व णडाधिवश्श पन्भट्टलज्जश्श ॥ ५ ॥ जाणामि ण कीलिश्शं शुमेलुशिहलपडणशण्णिहं जूअम् । तह वि हु कोइलमहुले कत्ताशद्दे मणं हलदि ॥ ६ ॥ (ङ). (क) ततोऽनुसरावः । (ख) एवं भवतु । (ग) कथं काष्ठमयी प्रतिमा । (घ) अरे, न खलु न खलु । शैलप्रतिमा । एवं भवतु । एहि । द्यूतेन क्रीडावः। (ङ) अरे, कत्ताशब्दो निर्माणकस्स हरति हृदयं मनुष्यस्य । ढक्काशब्द इव नराधिपस्य प्रभ्रष्टराज्यस्य ॥ जानामि न क्रीडिष्यामि सुमेरुशिखरपतनसंनिभं द्यूतम् । तथापि खलु कोकिलमधुरः कत्ताशब्दो मनो हरति ॥ द्यूतकरो विप्रतीपपादाभ्यां देवकुलं प्रविष्टः ॥ ततोऽनुसरावः ॥ संज्ञापनं प्रतिमायाम् ॥ [कत्तेति । द्यूतकरणं यया सा कत्ता । काड इति प्रसिद्धः । नान्दीपूर इति प्रसिद्ध । द्यूत इत्यन्ये (?) । कत्ताशब्दो निर्माणकस्य निर्धनस्य हरति पातयति हृदयं मनुष्यस्य । ढकाशब्द इव नराधिपस्य प्रभ्रष्टराज्यस्य । असात्विका इत्यर्थः ॥ ५ ॥ जानामि न क्रीडिष्यामि सुमेरुशिखरपतनसंनिभं द्यूतम् । सुखविनाशकमित्यर्थः । तथापि खलु कोकिलमधुरः कत्ताशब्दो मनो हरति ॥ ६ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy