________________
द्वितीयोऽङ्कः। द्यूतकरःजइ वज्जसि पादालं इन्दं शलणं च संपदं जासि । सहिअं वजिअ एकं रुद्दो वि ण रक्खिदुं तरइ ॥ ३ ॥ (क) माथुर:
कहिं कहिं सुसहिअविप्पलम्भआ ___ पलासि ले भअपलिवेविदङ्गआ । पदे पदे समविसमं खलन्तआ---
कुलं जसं अदिकसणं कलेन्तआ ॥ ४ ॥ (ख) द्यूतकरः-(पदं वीक्ष्य ।) एसो वजदि। इअं पणट्टा पदवी। (ग)
माथर:-(आलोक्य सवितर्कम् ।) अले, विप्पदीवु पादु । पडिमाशुण्णु देउलु । (विचिन्त्य ।) धुत्तु जूदकरु विप्पदीवेहिं पादेहिं देउलं पविट्ठो । (घ) (क) यदि व्रजसि पातालमिन्द्रं शरणं च सांप्रतं यासि ।
सभिकं वर्जयित्वैकं रुद्रोऽपि न रक्षितुं तरति ॥ (ख) कुत्र कुत्र सुसभिकविप्रलम्भक
पलायसे रे भयपरिवेपिताङ्गक । पदे पदे समविषमं स्खल
न्कुलं यशोऽतिकृष्णं कुर्वन् ॥ (ग) एष व्रजति । इयं प्रनष्टा पदवी ।
(घ) अरे, विप्रतीपौ पादौ । प्रतिमाशून्यं देवकुलम् । धूर्ती द्यूतकरो विप्रतीपाभ्यां पादाभ्यां देवकुलं प्रविष्टः । देवकुलं प्रविश्य देवी भविष्यामि । देवीति च्च्यन्तम् ॥ जइ बजसीत्यादि । आर्या । यदि गच्छसि पातालमिन्द्रं शरणं च सांप्रतं यासि । सभिकं वर्जयित्वैकं रुद्रोऽपि न रक्षितुं शक्नोति ॥३॥ कहिं कहिमित्यादि । रुचिरा वृत्तम् । कुत्र कुत्र सुसभिकविप्रलम्भक पलायसे रे भयपरिवेपमानाङ्गक । पदे पदे समविपमं यथा स्यादेवं स्खलन्कुलं यशश्चातिकृष्णं कुर्वन् ॥ ४ ॥ भट्टा भट्टैत्यन्योन्यसंबोधनम् (१) । अरे, विप्रतीपपादशून्यं देवकुलम् । प्रयोजनाभावेन नात्र मानुष इति भावः । 'धूर्ती द्यूतकरो विप्रतीपाभ्यां पादाभ्यां देवकुलं प्रविष्टः' इत्येके।धूतों