SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ५४ मृच्छकटिके अङ्गलाममुक्काए विअ शत्तीए __ घडुक्को विभ धादिदो म्हि शत्तीए ॥ १ ॥ लेखअवावडहिअअं शहिमं दट्टण झत्ति पन्भट्टे । एण्हि मग्गणिवडिदे कं णु क्खु शलणं पपज्जे ॥ २ ॥ ता जाव एदे शहिअजूदिअला अण्णदो मं अण्णेशन्ति, ताव हक्के विप्पडीवेहिं पादेहिं एवं शुण्णदेउलं पविशिअ देवी भविश्शम् । (क) (बहुविधं नाट्यं कृत्वा तथा स्थितः ।) (ततः प्रविशति माथुरो द्यूतकरश्च ।) . माथुर:--अले भट्टा, दशसुवण्णाह लुद्ध जूदकरु पपलीणु पपलीणु । ता गेण्ह गेण्ह । चिट्ठ चिट्ठ । दूरात्पदिट्टो सि । (ख) (क) आश्चर्यम् । कष्ट एष द्यूतकरभावः । नवबन्धनमुक्तयेव गर्दभ्या हा ताडितोऽस्मि गर्दभ्या। .. अङ्गराजमुक्तयेव शत्त्या . घटोत्कच इव घातितोऽस्मि शत्तया ॥ लेखकव्यापृतहृदयं सभिकं दृष्ट्वा झटिति प्रभ्रष्टः । - इदानीं मार्गनिपतितः कं नु खलु शरणं प्रपद्ये ॥ तद्यावदेतौ सभिकबूतकरावन्यतो मामन्विष्यतः, तावदहं विपरीताभ्यां पादाभ्यामेतच्छून्यदेवकुलं प्रविश्य देवी भविष्यामि । (ख) अरे भट्टारक, दशसुवर्णस्य रुद्धो द्यूतकरः प्रपलायितः प्रपलायितः । तद्गृहाण गृहाण । तिष्ठ तिष्ठ । दूरात्प्रदृष्टोऽसि । णेत्यादि । चित्रजातिः । गद्दहीति गर्दभीनामधेय्या । हा कष्टम् । ताडितो. ऽस्मि । गद्दहीति वराटिकानाम । गर्दभीशक्तिके आर्थी इति प्रसिद्धद्यूतके कपर्दकनामधेये । नर्वबन्धनान्मुक्तयेव गर्दभ्या पशुविशेषेण ताडितोऽस्मि गर्दभ्या। ताडनखभावा सा यतः । अङ्गराजेन कर्णेन मुक्तयेव शक्त्या अस्त्रविशेषेण । घटोत्कचो भीमसेनसुत इव ताडितोऽस्मि शक्त्या ॥ १ ॥ लेखएत्यादि । गाथा । लेखकव्यापृतहृदयं सभिकं दृष्ट्वा झटिति प्रभ्रष्टः । इदानीं मार्गनिपतितः कं नु खलु शरणं प्रपद्ये । कं नु खल्विति विमर्षे ॥ २ ॥ तद्यावदेतौ सभिकातकरौ मामन्यतोऽन्विष्यतस्तावत् । हक्के अहम् । विपरीतपादाभ्यामेतच्छून्यं
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy