SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ५२ मृच्छकटिके मदनिका-जाणिदम् । किं सो जेव जेण अजआ सरणाअदा अब्भुववण्णा । (क) वसन्तसेना-किंणामहेओ क्खु सो । (ख) मदनिका-सो क्खु सेट्ठिचत्तरे पडिवसदि । (ग) वसन्तसेना-अइ, णामं से पुच्छिदासि । (घ) मदनिका-सो क्खु अजए, सुगहीदणामहेओ अजचारुदत्तो णाम । (ङ) वसन्तसेना—(सहर्षम् ।) साहु मदणिए, साहु । सुदु तुए जाणिदम् । (च) मदनिका-(खगतम् ।) एव्वं दाव । (प्रकाशम् ।) अजए, दलिद्दो क्खु सो सुणीअदि । (छ) वसन्तसेना--अदो जेव कामीअदि । दलिद्दपुरिससंकन्तमणा क्खु गणिआ लोए अवअणीआ भोदि । (ज) मदनिका-अजए, किं हीणकुसुमं सहआरपादवं महुअरीओ उण सेवन्ति । (झ) (क) ज्ञातम् । किं स एव येनार्या शरणागताभ्युपपन्ना । (ख) किंनामधेयः खलु सः ।। (ग) स खलु श्रेष्ठिचत्वरे प्रतिवसति । (घ) अयि, नामास्य पृष्टासि । (ङ) स खलु आर्ये, सुगृहीतनामधेय आर्यचारुदत्तो नाम । (च) साधु मदनिके, साधु । सुष्ठु त्वया ज्ञातम् । (छ) एवं तावत् । आर्ये, दरिद्रः खलु स श्रूयते । । (ज) अत एव काम्यते । दरिद्रपुरुषसंक्रान्तमनाः खलु गणिका लोकेऽवचनीया भवति । (झ) आर्ये, किं हीनकुसुमं सहकारपादपं मधुकर्यः पुनः सेवन्ते । भट्टिदारिआए ईश्वरसुतया ॥सुहिदा सुखयुक्ता(?) ॥ अभ्युपपन्ना स्वीकृता ॥ सुगृहीतनामधेयो दातृत्वेन ॥ दरिद्रपुरुषदत्तमना अवचनीया भवति अर्थानभिलाषित्वात् । अतिख(१)श्चारुदत्तो ब्राह्मणः, अनध्यापकत्वेन विलासी, अन्यश्च
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy