________________
मृच्छकटिके
वसन्तसेना-हले, विण्णवेहि अत्तम्- 'अज ण ण्हाइस्सम् । ता बम्हणो जेव पूअं णिव्वत्तेदु' त्ति । (क)
चेटी-जं अजआ आणवेदि । (ख) (इति निष्क्रान्ता ।)
मदनिका-अजए, सिणेहो पुच्छदि, ण पुरोभाइदा, ता किं णेदम् । (ग)
वसन्तसेना-मदणिए, केरिसिं मं पेक्खसि । (घ)
मदनिका-अजआए सुण्णहिअअत्तणेण जाणामि, हिअअगदं कंपि अजआ अहिलसदि त्ति । (ङ)
वसन्तसेना-सुङ तुए जाणिदम् । परहिअअग्गहणपण्डिआ मदणिआ क्खु तुमम् । (च)
मदनिका-पिअं मे पिअम् । कामो क्खु णाम एसो भअवं । - अणुगहिदो महसवो तरुणजणस्स । ता कधेदु अज्जा , किं राआ, राअवल्लहो वा सेवीअदि । (छ)
वसन्तसेना-हले, रमिदुमिच्छामि, ण सेविदुम् । (ज) (क) चेटि, विज्ञापय मातरम्-'अद्य न स्नास्यामि । तद्ब्राह्मण एव पूजां निवर्तयतु' इति ।
(ख) यदाज्ञापयति । (ग) आर्ये, स्नेहः पृच्छति, न पुरोभागिता, तम्कि न्विदम् । (घ) मदनिके, कीदृशीं मां प्रेक्षसे ।
(ङ) आर्यायाः शून्यहृदयत्वेन जानामि, हृदयगतं कमप्यार्याभिलषतीति ।
(च) सुष्ठु त्वया ज्ञातम् । परहृदयग्रहणपण्डिता मदनिका खलु त्वम् ।
(छ) प्रियं मे प्रियम् । कामः खलु नामैष भगवान् । अनुगृहीतो महोत्सवस्तरुणजनस्यै । तत्कथयत्वार्या, किं राजा, राजवल्लभो वा सेव्यते ।
(ज) चेटि, रन्तुमिच्छामि, न सेवितुम् ।. अजआ वसन्तसेनैव । ण्हादा स्नाता । पूअं पूजाम् ॥ पुरोभाइदा पुरोभागिता दोषदर्शिता । 'दोषैकहक्पुरोभागी' इत्यमरः । दोषशून्यत्वेनेति भावः ॥ भअवं भगवान् । 'भअवदा' इत्यपि पाठः । भगवता हरेण । खीकृतोऽनुगृहीतो