SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । (प्रविश्य) चेटी — अत्ताए अजआसआसं संदेसेण पेसिदम्हि । ता जाव पविसिअ अज्जआसआसं गच्छामि । ( परिक्रम्यावलोक्य च । ) एसा अज्जआ हिअएण किंपि आलिहन्ती चिट्ठदि । ता जाव उपसप्पामि । (क) (ततः प्रविशत्यासनस्था सोत्कण्ठा वसन्तसेना मदनिका च । ) वसन्तसेना-हजे, तदो तदो । (ख) चेटी - अज्जए, ण किंपि मन्तेसि । किं तदो तदो । (ग) वसन्तसेना - किं मए भणिदम् । (घ ) चेटी - तदो तो त्ति । (ङ) वसन्तसेना – (सभ्रूक्षेपम् ।) आं, एव्वम् । (च) (उपसृत्य) प्रथमा चेटी – अज्जए, अत्ता आदिसदि - 'हादा भविअ देवदाणं पूअं णिव्वत्तेंहि' ति । (छ) (क) मात्रार्यासकाशं संदेशेन प्रेषितास्मि । तद्यावत्प्रविश्यार्यासकाशं गच्छामि । एषार्या हृदयेन किमप्यालिखन्ती तिष्ठति । तद्याचदुपसर्पामि । (ख) चेटि, ततस्ततः । (ग) आर्ये, न किमपि मन्त्रयसि । किं ततस्ततः । (घ) किं मया भणितम् । (ङ) ततस्तत इति । (च) आं, एवम् । (छ) आर्ये, मातादिशति — ' स्नाता भूत्वा देवतानां पूजां निर्वर्तय' इति । अत्ताए वसन्तसेनामात्रा | अज्जआस आसं वसन्तसेनासकाशम् । संदेशेन प्रयोजनार्थम् ॥ हृञ्जे नीचे । 'हजे, तदो तदो' इत्युन्माददशारीत्युपन्यासः ॥ मृ० ५
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy