SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः। ४७ चारुदत्तः–एवं भवतु । स्वयमेवानुगच्छामि तत्रभवतीम् । तद्राजमार्गविश्वासयोग्याः प्रज्वात्यन्तां प्रदीपिकाः । विदूषकः-वड्डमाणअ, पज्जालेहि पदीविआओ । (क) चेटः-(जनान्तिकम् ।) अले; तेल्लेण विणा पदीविआओ पज्जालीअन्ति । (ख) विदुषकः-(जनान्तिकम् ।) ही, ताओ क्खु अम्हाणं पदीविआओ अवमाणिदनिद्धणकामुआ विअ गणिआ णिस्सिणेहाओ दाणिं संवुत्ता । (ग) चारुदत्तः मैत्रेय, भवतु । कृतं प्रदीपिकाभिः । पश्य । उदयति हि शशाङ्कः कामिनीगण्डपाण्डु ग्रहगणपरिवारो राजमार्गप्रदीपः । तिमिरनिकरमध्ये रश्मयो यस्य गौराः स्रुतजल इव पङ्के क्षीरधाराः पतन्ति ॥ ५७ ।। (सानुरागम् ।) भवति वसन्तसेने, इदं भवत्या गृहम् । प्रविशतु भवती। (वसन्तसेना सानुरागमवलोकयन्ती निष्क्रान्ता ।) पुनर्ब्राह्मणो यत्र तत्र जनैश्चतुष्पथोपनीत उपहारः कुक्कुरैरिव खाद्यमानो विपत्स्ये । (क) वर्धमानक, प्रज्वालय प्रदीपिकाः । (ख) अरे, तैलेन विना प्रदीपिकाः प्रज्वाल्यन्ते । (ग) आश्चर्यम् , ताः खल्वस्माकं प्रदीपिका अपमानितनिर्धनकामुका इव गणिका निस्नेहा इदानीं संवृत्ताः। खकम् ॥ चतुष्पथोपनीत इवोपहारो देवताबलिरूपः खाद्यमानो विपत्स्ये ॥ ही आश्चर्ये । यत एव निर्धनोऽत एवापमानितः । निस्नेहा निस्तैलाश्च । स्नेहोऽनुरागस्तैलं च । संयुत्ता संवृत्ताः ॥ भवत्वित्युपसंहारोक्तिः । उदयतीति ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy