________________
मृच्छकटिके
चारुदत्त:-अयोग्यमिदं न्यासस्य गृहम् । वसन्तसेना-अज, अलीअम् । पुरुसेसु णासा णिक्खिविअन्ति, ण उण गेहेसु । (क)
चारुदत्तः—मैत्रेय, गृह्यतामयमलंकारः। वसन्तसेना-अणुग्गहिदम्हि । (ख) (इत्यलंकारमर्पयति ।) विदूषकः-(गृहीत्वा ।) सोत्थि भोदिए । (ग) चारुदत्तः-धिङ् मूर्ख, न्यासः खल्वयम् । विदूषकः-(अपवार्य ।) जइ एव्वं ता चोरेहि. हरिजउ । (घ) चारुदत्तः–अचिरेणैव कालेन । विदूषकः-एसो से अम्हाणं विण्णासो । (ङ) चारुदत्तः -निर्यातयिष्ये ।
वसन्तसेना-अज, इच्छे अहम् , इमिणा अजेण अणुगच्छिज्जन्ती सकं गेहं गन्तुम् । (च)
चारुदत्तः-मैत्रेय, अनुगच्छ तत्रभवतीम् ।
विदूषकः-तुम जेव एवं कलहंसगामिणी अणुगच्छन्तो राअहंसो विअ सोहसि । अहं उण बम्हणो जहिं जहिं जणेहिं चउ. प्पहोवणीदो उवहारो कुक्कुरेहिं विअ खजमाणो विवजिस्सम् । (छ)
(क) आर्य, अलीकम् । पुरुषेषु न्यासा निक्षिप्यन्ते, न पुनर्गेहेषु । (ख) अनुगृहीतास्मि । (ग) स्वस्ति भवत्यै। (घ) यद्येवं तदा चोरौर्हियताम् । (ङ) एषोऽस्या अस्माकं विन्यासः । (च) आर्य, इच्छाम्यहम् , अनेनार्यणानुगम्यमाना स्वकं गेहं गन्तुम् ।
(छ). त्वमेवैतां कलहंसगामिनीमनुगच्छन्राजहंस इव शोभसे । अहं गृहीतसंभोगोपकरणादिना । पापा अकार्यकारिणः ॥ भग्नत्वाद्रक्षकाभावाच्चायोग्यता ॥ आर्य, पुरुषेषु न्यासा निक्षिप्यन्ते, न पुनर्गेहेषु ॥ अत्यन्तप्रश्रयवत्वादनुग्रहः ॥ चोरेहिं हरिजउ इति संधिच्छेदनाम्नस्तृतीयाङ्कस्य सूचनम् ॥ सकं