SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । प्रविश गृहमिति प्रतोद्यमाना न चलति भाग्यकृतां दशामवेक्ष्य ४५ पुरुषपरिचयेन च प्रगल्भं न वदति यद्यपि भाषते बहूनि ॥ ५६ ॥ (प्रकाशम् ।) भवति वसन्तसेने, अनेनाविज्ञानादपरिज्ञातपरिजनोपचारेणापराद्धोऽस्मि । शिरसा भवतीमनुनयामि । T वसन्तसेना — एदिणा अणुचिदभूमिआरोहणेण अवरज्झा अज्जं सीसेण पणमिअ पसादेमि । (क) विदूषकः - भो, दुवेवि तुम्हे सुखं पणमिअ कलमकेदारा अण्णोष्णं सीसेण सीसं समाअदा । अहं पि इमिणा करहजाणुसरिसेण सीसेण दुबेवि तुम्हे पसादेमि । (ख) (इत्युतिष्ठति ।) चारुदत्तः - भवतु । तिष्ठतु प्रणयः । वसन्तसेना – (स्वगतम् ।) चदुरो मधुरो अ अअं उवण्णासो । ण जुत्तं अज्ज एरिसेण इध आअदाए मए पडिवसिदुम् । भोदु । एव्वं दाव भणिस्सम् । (प्रकाशम् ।) अज्ज, जइ एव्वं अहं अज्जस्स अणुग्गेज्झा ता इच्छे अहं इमं अलंकारअं अज्जस्स गेहे णिक्खिविदुम् । अलंकारस्स णिमित्तं एदे पावा अणुसरन्ति । (ग) (क) एतेनानुचित भूमिकारोहणेनापराद्धार्ये शीर्षेण प्रणम्य प्रसादयामि । (ख) भोः, द्वावपि युवां सुखं प्रणम्य कलम केदारावन्योन्यं शीर्षेण शीर्ष समागतौ । अहमप्यमुना करभजानुसदृशेन शीर्षेण द्वावपि युवां प्रसादयामि । (ग) चतुरो मधुरश्वायमुपन्यासः । न युक्तमद्येदृशेनेहागतया मया प्रतिवस्तुम् । भवतु । एवं तावद्भणिष्यामि । आर्य, यद्येवमहमार्यस्यानुग्राह्या तदिच्छाम्यहमिममलंकारकमार्थस्य गेहे निक्षेप्तुम् । अलंकारस्य निमित्तमेते पापा अनुसरन्ति । भिलाषो नास्तीत्यर्थः ॥ देवतेवोपस्थानं यस्याः सा । प्रविश गृहमिति । पुष्पिताग्रा वृत्तम् ॥ ५६ ॥ अनुचितभूमिसमारोहणं पक्षद्वारेणावासप्रवेशादि - कम् ॥ करभ उष्ट्र शिशुः ॥ प्रणय इत्यनेन संभोगप्रार्थना कटाक्षिता ॥ ईदृशेना
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy