SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४४ मृच्छकटिके चारुदत्तः- इयं वसन्तसेना । (खगतम् ।) यया मे जनितः कामः क्षीणे विभवविस्तरे । क्रोधः कुपुरुषस्येव स्वगात्रेष्वेव सीदति ॥ ५५ ॥ विदूषकः-भो वअस्स, एसो क्खु राअसालो भणादि । (क) चारुदत्तः किम् । विदूषकः-एषा ससुवण्णा सहिलण्णा णवणाडअदंसणुविदा सुत्तधालि व्व वसन्तसेणा णाम गणिआदालिमा कामदेवाअदणुजाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलकालाणुणीअमाणा तुह गेहं पविट्ठा । (ख) वसन्तसेना—(खगतम् ।) बलक्काराणुणीअमाणेत्ति जं सच्चम् , अलंकिदम्हि एदेहिं अक्सरेहिं । (ग) विदूषकः-ता जइ मम हत्थे सरं जेव पट्टाविअ एणं समप्पेसि, तदो अधिअलणे ववहालं विणा लहुं णिजादमाणाह तव मए अणुबद्धा पीदी हुविस्सदि । अण्णधा मलणन्तिके वेले हुविस्सदि । (घ) चारुदत्तः—(सावज्ञम् ।) अज्ञोऽसौ । (स्वगतम् ।) अये, कथं देवतोपस्थानयोग्या युवतिरियम् । तेन खलु तस्यां वेलायाम् (क) भो वयस्य, एष खलु राजश्यालो भणति । (ख) एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्तास्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा । (ग) बलात्कारानुनीयमानेति यत्सत्यम् , अलंकृतास्म्येतैरक्षरैः । (घ) तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविष्यति । अन्यथा मरणान्तिकं वैरं भविष्यति । कामदेवायतनोद्यानात्प्रभृति ॥ ययेति । सीदति कर्तव्यासामर्थ्यात्प्रव्यको न भवति ॥ ५५ ॥ एषेत्यादि पूर्वोक्तमेव भणति । अलंकृतास्मीति । ममान्यत्रा
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy