________________
४३
प्रथमोऽङ्कः। चारुदत्तः-ननु रदनिके, रोहसेनं गृहीत्वाभ्यन्तरं प्रविश ।
वसन्तसेना—(खगतम् ।) मन्दभाइणी क्खु अहं तुम्हे अब्भन्तरस्स । (क) चारुदत्तः-ननु रदनिके, प्रतिवचनमपि नास्ति । कष्टम् । यदा तु भाग्यक्षयपीडितां दशां
नरः कृतान्तोपहितां प्रपद्यते । तदास्य मित्राण्यपि यान्त्यमित्रतां
चिरानुरक्तोऽपि विरज्यते जनः ॥ ५३ ॥
• (रदनिकामुपसृत्य) विदूषकः-भो, इअं सा रदणिआ । (ख) चारुदत्तः–इयं सा रदनिका । इयमपरा का ।
अविज्ञातावसक्तेन दूषिता मम वाससा । वसन्तसेना-(खगतम् ।) णं भूसिदा । (ग) चारुदत्तः
छादिता शरदभ्रेण चन्द्रलेखेव दृश्यते ॥ ५४ ॥ अथवा, न युक्तं परकलत्रदर्शनम् ।
विदूषकः-भो, अलं परकलत्रदंसणसङ्काए। एसा वसन्तसेणा कामदेवाअदनुजाणादो पहुदि भवन्तमणुरत्ता । (घ) (क) मन्दभागिनी खल्वहं तवाभ्यन्तरस्य । (ख) भोः, इयं सा रदनिका । (ग) ननु भूषिता।
(घ) भोः, अलं परकलत्रदर्शनशङ्कया । एषा वसन्तसेना कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्ता। तदनुरूपचेष्टायोगात् ॥ अभ्यन्तरगमनस्याभागिनी । वेश्यात्वात् ॥ यदेति । भाग्यं शोभनं कर्म ॥ ५३ ॥ अविज्ञातेति । दूषिता परपुरुषत्वात् ॥ ५४ ॥ .